SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ५६४ वेदान्तदीपे [अ. ४. १" प्रजापतेरसभां वेश्म प्रपद्ये " इति च प्राप्यस्थानस्य विशेषितत्वाच्च हिरण्यगर्भमुपासीनमेव नयति ॥ ७ ॥ सामीप्यात्तु तद्वयपदेश: ॥ एवं निश्चिते सति २" स एनान्ब्रह्म गमयति" इति हिरण्यगर्भस्य ब्रह्मशब्दव्यपदेशो ब्रह्मसामीप्यात् ३" यो ब्रह्माणं विदधाति पूर्वम्" इति प्रथमजत्वेन ब्रह्मसामीप्यं हि विद्यते ॥ ८ ॥ Acharya Shri Kailassagarsuri Gyanmandir - कार्यात्यये तदध्यक्षेण सहातः परमभिधानात् ॥ हिरण्यगर्भप्राप्तावप्यपुनरावृत्तिरुपपद्यते, कार्यस्य हिरण्यगर्भलोकस्यात्यये तदध्यक्षेण-हिरण्यगर्भेणाधिकारिकपुरुषेण विदुषा सह परप्राप्त्यभिधानात् ४" ते ब्रह्मलोके तु परान्तकाले परामृतात्परिमुच्यन्ति सर्वे" इति ॥ ९ ॥ ܪ " स्मृतेश्व ॥ ५" ब्रह्मणा सह ते सर्वे संप्राप्ते प्रतिसञ्चरे । परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम्" इति स्मृतेश्वावगम्यते ॥ १० ॥ परं जैमिनिर्मुख्यत्वात् || परं ब्रह्मोपासीनमेव नयत्यातिवाहिको गण इति जैमिनिराचार्यो मन्यते ६ " ब्रह्म गमयति " इति ब्रह्मशब्दस्य तत्रैव मुख्यत्वात् । ७“ब्रह्मलोकान्” इति शब्दश्च ब्रह्मैव लोको ब्रह्मलोक इति कर्मधारयपरिग्रहस्यैव न्याय्यत्वादुपपद्यते । एवं निश्चिते सति बहुवचनं च ८" अदितिः पाशान् " इतिवदुपपन्नम् ॥ ११ ॥ दर्शनाच्च ।। ९‘अस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते” इत्यर्चिरादिना गतस्य परब्रह्मप्राप्तिं दर्शयति च ॥ १२ ॥ नच कार्ये प्रत्यभिसन्धिः || १ प्रजापतेस्लभां वेश्म प्रपद्ये" इति प्रत्यभिसन्धिश्च न कार्ये १० " धूत्वा शरीरमकृतं कृतात्मा ब्रह्मलोकमभिसम्भवामि" इत्यकृतं ब्रह्मलोकमिति तत्रैव विशेषितत्वात्, १" यशोऽहं भवामि ब्राह्मणानाम्" इति सर्वात्मभावाभिसन्धानाच्च ॥ १३ ॥ अप्रतीकालम्बनान्नयतीति बादरायण उभयधा च दोषात्तत्क्रतु For Private And Personal Use Only व ॥ कयमुपासीनानेवेति नायं नियमः, परमेवोपासीनानित्ययमपि नियमो न सम्भवति ; कुतः ? उभयधाच दोषात् कार्यमुपासीनानेवेति नियमे९ 'अ १ छा. ८-१४-१ ॥ २. हा ५-१०-२ ॥ ३. वे. ६-१८ ॥–४, तै. ना. १०-२४॥ ५. कूर्मपुराणे. पूर्वख १२-२६९ ॥ ६. छा. ४-१५-६ ॥ – ७. बृ. ८-२-१५ ॥ ८ ॥ - ९. छा. ८-३-४ ॥ - १०. छा. ८-१३-१ ॥
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy