________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४६३
पा. ३.]
कार्याधिकरणम् . इत्यादिनाऽवगतब्रह्मात्मकत्वमुपासत इति ह्यप्रतीकालम्बनत्वम्। तत्क्रतुन्या. याविरोधश्च उभयेऽपि हि परिपूर्ण ब्रह्मोपासते मुखभेदेन-स्वात्मशरीरकं ब्रह्म केचन, ब्रह्मात्मकस्वात्मानमितरे-इति ॥ १४॥
विशेषश्च दर्शयति॥ कार्यमुपासीनानां ब्रह्मप्राप्तिव्यतिरिक्तपरिमितदेशकालफलविशेषश्च दर्शयति श्रुतिः१ "यावन्नाम्नो गतम्" इत्यादिका॥ १५॥
इति वेदान्तसारे कार्याधिकरणम् ॥ ५ ॥
इति श्रीभगवद्रामानुजविरचिते श्रीवेदान्तसारे चतुर्थस्याध्यायस्य
तृतीयः पादः ॥ ३॥
वेदान्तदीपे-कार्य बादरिरस्य गत्युपपत्तेः।। किमर्चिरादिको गणः कार्य हिरण्यगर्भमुपासीनान्नयति, उत परं ब्रह्मोपासीनान, अथ परं ब्रह्मोपासीनान् , प्रत्यगात्मानं ब्रह्मात्मकतयोपासीनांश्चेति संशयः । कार्य हिरण्यगर्भमुपासीनानिति पूर्वः पक्षः, तेषामेव गत्युपपत्तेः । न हि परिपूर्ण सर्वगतं परं ब्र. झोपासीनानां तत्प्राप्तये गतिरुपपद्यते, नित्यप्राप्तत्वात् । अविद्यानिवृत्तिरेव हि कार्या । परमेवोपासीनानिस्यपरः पक्षः, २" स एनान्ब्रह्म गमयति" इति ब्रह्मशब्दस्य तत्रैव मुख्यत्वात् । अविद्यानिवृत्तेः फलाभिसन्धिरहितयज्ञाद्यपेक्षावत् श्रवणाद्यपेक्षावञ्च गतिश्रुत्या देशविशेषापेक्षा च विद्यत इति निश्चीयते । राद्धान्तस्तु-परमुपासीनानन्यानपि नयति, २" तद्य इत्थं विदुर्येचेमेऽरण्ये श्रद्धा तप इत्युपासते तेऽर्चिषमभिसम्भवन्ति" इति पञ्चाग्निविदां परं ब्रह्मोपासीनानां चाचिरादिगतिश्रुतेः । पञ्चाग्निविदो हि प्रकृतिविमुक्तब्रह्मात्मकात्मस्वरुपविदः । ते च तत्प्राप्य पुनर्न निवर्तन्ते । परं ब्रह्मोपासीनास्तु यथावस्थितं परिपूर्ण परं ब्रह्मैव प्राप्य पुनर्न निवर्तन्ते । २"तद्य इत्थं विदुर्येचेमेऽरण्ये श्रद्धा तप इत्युपासते तेऽचिंषमभिसम्भवन्ति" इत्युभयविधान्भेदेनोपादायाचिरादिगतिश्रुतेरपुनरावृत्तिश्रुतेश्चैवमिति निश्चीयते ॥
सूत्रार्थस्तु-कार्य - हिरण्यगर्भमुपासीनमातिवाहिको गणो नयतीति बा. दरिराचार्यों मन्यते, अस्यैव गत्युपपत्तेः; परमुपासीनस्य हि न तत्प्राप्तये गतिरुपपद्यते सर्वगतत्वात्परस्य ब्रह्मणः ॥ ६॥
विशेषितत्वाच ॥ ३ “पुरुषोऽमानव एत्य ब्रह्मलोकान्गमयति" इति १. छा. ७-१-५॥-२. छा. ५-१०-२,१॥-३. वृ. ८-२-१५॥
For Private And Personal Use Only