________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. ३.] कार्याधिकरणम्.
४५९ स्नात् । यथा हि विद्योत्पत्तिर्वर्णाश्रमधर्मशौचाचारदेशकालाचपेक्षा "तमेतं वेदानुवचनेन" इत्यादिशास्वादवगम्यते, तथा निश्शेषाविद्यानिवर्तनरूपविद्यानिष्पत्तिरपि विशिष्टदेशगतिसापेक्षेति गतिशास्त्रादवगम्यते । विदुष उत्क्रान्तिप्रतिषेधादि तु पूर्वमेव परिहृतम्। यत्तु २ "ब्रह्मलोकान्" इति लोकशब्दबहुवचनाभ्यां विशेषणात्कार्यभूतहिरण्यगर्भप्रतीतिरिति । तदयुक्तम् , निषादस्थपतिन्यायेन ब्रह्मैव लोको ब्रह्मलोक इति कर्मधारयस्यैव युक्तत्वात् , अर्थस्य चैकत्वे निश्चिते बहुवचनस्य ३"अदितिः पाशान्" इतिवदुपपत्तेः परस्य ब्रह्मणः परिपूर्णस्य सर्वगतस्य सत्यसङ्कल्पस्य खेच्छापरिकल्पिताः स्वासाधारणा अप्राकृताश्च लोका नात्यन्ताय न सन्ति, श्रुतिस्मृतीतिहासपुराणप्रामाण्यात् ॥११॥
च।४।३।१२॥ दर्शयति श्रुतिः मूर्धन्यनाड्या निष्क्रम्य देवयानेन गतस्य परब्र. ममाप्तिम् "एष सम्प्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसम्पद्य खेन रूपेणाभिनिष्पद्यते" इति ॥१२॥ ___ यदुक्तं ५"प्रजापतेस्सभां वेश्म प्रपद्ये" इत्यचिरादिना गतस्य कार्य प्रत्यभिसन्धिदृश्यत इति; तत्रोत्तरंनच कार्य प्रत्यभिसन्धिः । ४।३।१३॥
न चायं प्रत्यभिसन्धिः कार्ये हिरण्यगर्भः अपि तु परस्मिन्नेव ब्रमणि, वाक्यशेषे ५" यशोऽहं भवामि ब्राह्मणानाम्" इति तस्याभिसन्धातुस्सर्वाविद्याविमोकपूर्वकसर्वात्मभावाभिसन्धानात्, ६" अश्व इव रोमाणि विधूय पापं चन्द्र इव राहोर्मुखात्ममुच्याधृत्वा शरीरमकृतं कृतात्मा ब्रह्मलोकमभिसम्भवामि" इत्यभिसम्भाव्यस्य ब्रह्मलोकस्याकृतत्व
१. बृ. ६-४-२२ ॥–२. बृ. ८-२-१५ ॥ ३ ॥-४. छा. ८-३-४ ॥-५ छा. ८-१४-१॥-६. छा. ८-१३-१॥
For Private And Personal Use Only