________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४५८ श्रीशारीरकमीमांसाभाष्ये
[अ.४. स्य कार्यभूतस्य द्विपराधकालावसाने विनाशशास्त्रात् १"आ ब्रह्मभुवनाल्लोकाः पुनरावर्तिनोऽर्जुन" इतिवचनाद्धिरण्यगर्भ प्राप्तस्य पुनरावृत्तेरवजनीयत्वात्-इतिः अत्राहकार्यात्यये तदध्यक्षेण सहातः परमभिधा
नात् । ४।३।९॥ कार्यस्य-ब्रह्मलोकस्यात्यये तदध्यक्षेण -हिरण्यगर्भेणाधिकारिकेणावसिताधिकारेण विदुषा सह स्वयमपि तत्राधिगतविद्यः अत:-कार्याब्रह्मलोकात् परं ब्रह्म प्रामोतीत्यचिरादिना गतस्यामृतत्वप्राप्त्यपुनरावत्यभिधानात "ते ब्रह्मलोके तु परान्तकाले परामृतात्परिमुच्यन्ति सर्वे" इति वचनाचावगम्यते ॥९॥
स्मृतेश्च ।४।३।१०॥ स्मृतेश्चायमर्थोऽवगम्यते-३"ब्रह्मणा सह ते सर्वे सम्माप्ते प्रतिसनरे। परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम्" इति। अतः कार्यमुपासीनमेवार्चिरादिको गणो नयतीति बादरेर्मतम् ।। १०॥
अत्र जैमिनिः पक्षान्तरपरिग्रहेण प्रत्यवतिष्ठतेपरं जैमिनिर्मुख्यत्वात् । ४।३।११॥
परं ब्रह्मोपासीनानचिरादिनयतीति जैमिनिराचार्यो मन्यते कुतः? मुख्यत्वाव-४" तत्पुरुषोऽमानवस्स एनान् ब्रह्म गमयति" इति ब्रह्मशब्दस्य परस्मिन्नेव ब्रह्मणि मुख्यत्वात् । प्रमाणान्तरेण कार्यत्वनिश्चये सत्येव हि लाक्षणिकत्वं युक्तम् । न च गमनानुपपत्तिः प्रमाणम् , परस्य ब्रह्मणस्सर्वगतत्वेऽपि विदुषो विशिष्टदेशगतस्यैवाविद्यानिवृत्तिशा
१.गी. ८-१६ ॥ -२. ते. ना, १०-अनु-२४ ॥ –३. कूर्मपुराणे. पूर्वख. १२. २१९॥-४. छा. ४-१५-५, ६ ॥
For Private And Personal Use Only