________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४५७
पा. ३.]
कार्याधिकरणम् . मन्यते । कुतः१ अस्य-हिरण्यगर्भमुपासीनस्यैव गत्युपपत्तेः । न हि परिपूर्ण सर्वज्ञ सर्वगतं सर्वात्मभूतं परं ब्रह्मोपासीनस्य तत्माप्तये देशान्तरगतिरुपपद्यते, प्राप्तत्वादेव ; नित्यप्राप्तपरब्रह्मविषयाविद्यानिवृत्तिमात्रमेव हि परविद्याकार्यम् । कार्य तु हिरण्यगर्भरूपं ब्रह्मोपासीनस्य परिच्छिन्नदेशवर्तिप्राप्यप्राप्त्यर्थ गमनमुपपद्यते । अतोऽचिरादिरातिवाहिकगणस्तमेव नयति ॥ ६॥
विशेषितत्वाच्च । ४।३।७॥ १"पुरुषोऽमानव एत्य ब्रह्मलोकान्गमयति" इति लोकशब्देन बहुवचनेन च लोकविशेषवर्तिनं हिरण्यगर्भमुपासीनमेवामानवो गमयतीति विशेष्यते । किश्च २ "प्रजापतेस्सभां वेश्म प्रपद्ये" इति कार्यस्य हिरण्यगर्भस्य समीपगमनमर्चिरादिना गतः प्रत्यभिसन्धत्ते ॥ ७॥
नन्वेवं३ "तत्पुरुषोऽमानवः" "स एनान् ब्रह्म गमयति"इत्ययं निदेशो नोपपद्यते; हिरण्यगर्भनयने हि ‘स एनान् ब्रह्माणं गमयति' इति निर्देष्टव्यं स्यात् । अत आह
सामीप्यात्तु तद्वयपदेशः।४।३।८॥ ___५“यो ब्रह्माणं विदधाति" इति हिरण्यगर्भस्य प्रथमजत्वेन ब्रह्मसामीप्यात्तस्य ब्रह्मशब्देन व्यपदेश इति गत्यनुपपत्तिविशेषणादिभिरुक्तैर्हेतुभिर्निश्चीयत इत्यर्थः ॥८॥
___ अथ स्यात्-अचिरादिना हिरण्यगर्भप्राप्तौ ४'एष देवपथो ब्रह्मपथ एतेन प्रतिपद्यमाना इमं मानवमावर्त नावर्तन्ते" ६"तयोर्ध्वमायनमृतत्वमेति" इत्यमृतत्वप्राप्त्यपुनरावृत्तिव्यपदेशो नोपपद्यते,हिरण्यगर्भ
१. ब. ८-२-१५ ॥-२. छा. ८-१४-१ ॥-३. छा. ४-१५-५ ॥ ---४. छा. ४-१५-६ ॥-५. श्वे. ६-१८ ॥--६. कठ. २-६-१६ ॥-७. इत्यमृतत्वापुनरावृत्तिव्यप
देश:. पा
॥
*58
For Private And Personal Use Only