________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४५६
श्रीशारीरकमीमांसाभाष्ये एनान् ब्रह्म गमयति" इति श्रुतेः वैद्युतपुरुषात्परस्तात्स एव ब्रह्म गमयिता। वरुणेन्द्रप्रजापतीनां तदनुग्राहकत्वमेव॥ ५॥
इति वेदान्तसारे आतिवाहिकाधिकरणम् ।। ४ ।।
वेदान्तदीपे-आतिवाहिकास्तल्लिङ्गात् ॥ किमर्चिरादयो विदुषो ब्रह्म प्रेप्सोर्मार्गचिह्नभूताः, उत गमयितार इति संशयः। · अमुकं वृक्षममुकां नदीममुकं पर्वतपाय गत्वाऽमुकं ग्रामं गच्छ' इत्यादिदेशिकोपदेशप्रकारद. र्शनान्मार्गचिह्नभूताः-इति पूर्वः पक्षः । राद्धान्तस्तु १" स एनान्ब्रह्म गमय ति" इति वैद्युतपुरुषस्य गमयितृत्वदर्शनात् इतरेषां चाविशेषनिर्दिष्टानां स एव सम्बन्ध इति निश्चीयते । २ "अग्निलोकम्” इत्यादिलोकशब्दोऽपि मध्ये भोगाभावाद्गमयितृत्व एवोपपद्यते । सूत्रार्थस्तु-आतिवाहिकाः-विदुषामतिवाहे परमपुरुषेण नियुक्ताः,अर्चिराद्यभिमानिदेवताविशेषाः गमयितार इत्यर्थः। १"स एनान्ब्रह्म गमयति" इति लिङ्गात् ॥४॥
वैद्युतेनैव ततस्तच्छ्रुतेः।। ततः विद्युत उपरि वैद्युतेन विदुषो गमनम्, तच्छृतेः-१ "स एनान्ब्रह्म गमयति" इति तस्यैव श्रुतेः। वरुणादीनां तदनुग्राहकत्वेन गमयितृत्वमिति निश्चीयत इत्यर्थः॥५॥
इति वेदान्तदीपे आतिवाहिकाधिकरणम् ॥ ४ ॥
...(श्रीशारीरकमीमांसाभाष्ये कार्याधिकरणम् ॥५॥)
कार्य बादरिरस्य गत्युपपत्तेः । ४।३।६॥ __ अचिरादिनैव गच्छति विद्वान्, अर्चिरादिरमानवान्तश्च गण आतिवाहिको विद्वांसं ब्रह्म गमयतीत्युक्तम् । इदमिदानी चिन्त्यते। किमयमचिरादिको गणः कार्य हिरण्यगर्भमुपासीनानयति, उत परमेव ब्रमोपासीनान , अथ परं ब्रह्मोपासीनान् प्रत्यगात्मानं ब्रह्मात्मकतयोपासीनश्चि-इति विशये-कार्यमुपासीनानेव गमयतीति बादरिराचार्यो
१. छा. ४-१५-६ ॥-२. कौषी. १-अ, ३ ॥
For Private And Personal Use Only