________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. ३.] आतिवाहिकाधिकरणम् .
४५५ षीतकिनः १“अग्निलोकमागच्छति" इत्यादिना लोकशब्दानुविधानेनाचिरादीन् पठन्तीति ॥
--(सिद्धान्तः)..एवं प्राप्ते ब्रूमः-आतिवाहिकाः-इति।विदुषामतिवाहे परमपुरुषेण नियुक्ताः आतिवाहिकाः देवताविशेषा एतेऽचिरादयः । कुतः ? तल्लिङ्गात्-अतिवहनलिङ्गात् । अतिवहनं हि गन्तॄणां गमयितृत्वम् । गम यितृत्वं च २"तत्पुरुषोऽमानवस्स एनान् ब्रह्म गमयति" इत्युपसंहारे श्रूयमाणं पूर्वेषामप्यविशेषश्रुतानां स एव सम्बन्ध इति गमयति । वदन्ति चार्चिरादयः शब्दाः अचिराद्यात्मभूतानभिमानिदेवताविशेषान् । ३"तं पृथिव्यब्रवीत्" इतिवत् ॥ ४ ॥
___ यद्येवं २"तत्पुरुषोऽमानवस्स एनान् ब्रह्म गमयति" इति वैद्युतस्यैव पुरुषस्य ब्रह्मगमयितृत्वश्रुतेर्विद्युतः परेषां वरुणादीनां कथमातिवाहिकत्वेनान्वय इत्यत्राह
वैद्युतेनैव ततस्तच्छ्तेः । ४।३।५॥
ततः-विद्युत उपरि, वैद्युतेन-अमानवेनैवातिवाहिकेन विदुषामाब्रह्मप्राप्तेर्गमनम् । कुतः तच्छ्रुतेः २ “स एनान् ब्रह्म गमयति" इति तस्यैव गमयितृत्वश्रुतेः । वरुणादयस्त्वनुग्राहका इति तेषामप्यातिवाहिकत्वेनान्वयो विद्यत एव ॥ ५॥
____ इति श्रीशारीरकमीमांसाभाये आतिवाहिकाधिकरणम् ॥ ४ ॥
वेदान्तसारे-आतिवाहिकास्तल्लिङ्गात् ।। अचिराद्यभिमानिदेवताविशेषाः विदुषामातिवाहिकत्वेन परमपुरुषनियुक्ताः- इति विज्ञायते, २"सएनान् ब्रह्म गमयति" इति तेष्वेकत्र गमयितृत्वदर्शनात् लिङ्गात् ॥ ४॥
वैद्युतेनैव ततस्तच्छ्रुतेः।। २“चन्द्रमसो विद्युतं तत्पुरुषोऽमानवस्स १. को, १-अ. ३ ॥ २. छा. ४-१५-५,६ ॥-३. यजु. ५-५-२॥
For Private And Personal Use Only