________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
४५४
श्रीशारीरकमीमांसाभाष्ये
[अ. ४.
वेदान्तदीपे - ततोऽधि वरुणस्सम्बन्धात् ।। छान्दोग्यवाजसनेयककौषीतकप्रभृतिष्यानातस्यार्चिरादिमार्गस्यार्चिरहरापूर्यमाणपक्षोत्तरायणसंच - त्सरवाय्वादित्यचन्द्र विद्युद्वरुणेन्द्र प्रजापतिरूपस्योपसंहारे वायुपर्यन्तस्य श्रुत्यादिभिः क्रमप्रकार उक्तः । वरुणेन्द्र प्रजापतीनां किं विद्युत उपरि निवेशः, उतवायोरुपरीति संशयः । १ स वायुलोकं स वरुणलोकम्” इति कौषीतकीपाठक्रमेण वायोरुपरि वरुणस्य निवेशः । इन्द्रादेरपि वरुणनिवेशाय वाय्वादित्ययोः क्रमस्य बाधितत्वात्तत्रैव वरुणोपरीति पूर्वः पक्षः । राद्धान्तस्तु - विद्युतो मेघदरवर्तित्वेन विद्युद्वरुणयोर्लोके वेदे च 'सम्बन्धावगमात्पाठक्रमादर्थक्रमस्य बलीयस्त्वेन वरुणस्य विद्युत उपरि निवेशः कार्यः । इन्द्रादेरपि वरुणनिवेशाय विद्युतो व्यवधान सहत्वदर्शनाद्वरुणोपरि निवेशः । सूत्रं च व्याख्यातम् ॥ इति वेदान्तदीपे वरुणाधिकरणम् || ३ ||
(श्रीशारीरकमीमांसाभाष्ये आतिवाहिकाधिकरणम् ।। )
Acharya Shri Kailassagarsuri Gyanmandir
आतिवाहिकास्तल्लिङ्गात् । ४।३।४॥
इदमिदानीं चिन्त्यते - किमर्चिरादयो मार्गचिह्नभूताः, उत भोगभूमयः, अथवा विदुषां ब्रह्म प्रेप्सतामतिवोढारः - इति । किं तावद्युक्तम् ? मार्गचिह्नभूता इति । कुत: ? उपदेशस्य तथाविधत्वात् ; दृश्यते हि लोके ग्रामादीन् प्रति गन्तृणामेवंविधो देशिकैरुपदेश: - 'इतो निष्क्रम्यामु कं वृक्षमकां नदीममुकं च पर्वतपार्श्व गत्वाऽमुकं ग्रामं गच्छ ' इति । अथवा, भोगभूमय एतास्स्युः, कालविशेषतया प्रसिद्धानामहादीनां मार्गचिह्नत्वानुपपत्तेरन्यस्य च मार्गचिह्नभूतस्यैतेषामनभिधायकत्वात् । भोगभूमित्वं च २ " एत एव लोका यदहोरात्राण्यर्धमासा मासा ऋतव - स्संवत्सराः" इत्यहरादीनां लोकत्ववचनादुपपद्यते । अत एव च कौ
१. कौ. १ अ. ३ ॥ -२ तै. ना. ८० अनु ॥
For Private And Personal Use Only