________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. ३. ]
वरुणाधिकरणम् -
४५३
धेन १ “ देवलोकादादित्यमादित्याद्वैद्यतम्” इति वाजसनेयकोक्त श्रुतिक्रमाद्देवलोकशब्दाभिहिताद्वायोरुपरि निवेशस्सिद्धः । इदानीं वरुणेन्द्रादिषु चिन्ता । किमेते वरुणादयो यथापा वायोरूर्ध्वं निवेशयितव्याः, आहोस्विद्युतोऽधीत विशये, अर्चिः प्रभृतिषु सर्वेषु २ " अर्चिषोऽह : " इत्यादिश्रुतिक्रमोपरोधाद्विद्युतः परस्ताच्च ३" तत्पुरुषोऽमानवस्स एनान् ब्रह्म गमयति" इति विद्युत्पुरुषस्य ब्रह्मगमयितृत्वश्रवणाच्च सर्वत्रावकाशाभावेनाप्राप्तौ च उपदेशावैयर्थ्यायावश्यं कस्यचिद्वाध्यत्वे पाठक'मानुरोधेन वायोरनन्तरं वरुणो निवेशयितव्यः । वाय्वादित्ययोः क्रमस्य बाधितत्वेनेन्द्र प्रजापती अपि ह्यत्रैव निवेशयितव्यौ -
( सिद्धान्तः )
इति प्राप्त श्रच्यते - तटितोऽधि वरुणः - इति । वरुणस्तावद्विद्युत उपरिष्टान्निवेशयितव्यः । कुतः; सम्बन्धात् मेघोदरवर्तित्वाद्विद्युतो वरुणेन सम्बन्धो लोकवेदयोः प्रसिद्धः । एतदुक्तं भवति - वरुणादीनामुपदेशावैयर्थ्याय कचिन्निवेशयितव्यत्वे सति पाठक्रमादर्थक्रमस्य बलीयस्त्वाद्विद्युतोऽधि वरुणो निवेशयितव्यः ; ततश्चामानवस्य गमयितृत्वं व्यवधान सहमित्यवगम्यते । तस्य च व्यवधानसहत्वादिन्द्रादेवोपदिष्टस्यावश्यनिवेशयितव्यस्य वरुणादुपर्युपदिष्टत्वादागन्तूनामन्ते निवेशयितव्यत्वाच्च वरुणादुपरीन्द्रादिर्निवेशयितव्य इति ॥ ३॥
इति श्रीशारीरकमीमांसाभाष्ये वरुणाधिकरणम् ॥ ३ ॥
वेदान्तसारे - तटितोऽधि वरुणस्सम्बन्धात् ।। तदितोऽनन्तरं वरुणो निवेश्यः, मेघोदरवृत्तित्वाद्विद्युतः, मेघस्थजलात्मकत्वेन लोकवेदयोर्वरुणस्य विद्युत्सम्बन्धावगमात् तदनन्तरमिन्द्रप्रजापती पाठक्रमात्, प्रबल विशेषाभावाच्च ॥ इति वेदान्तसारे वरुणाधिकरणम् ॥ ३ ॥
१. बृ. ८-२-१५ ॥ २. छा. ४-१५-५ ॥ २. छा. ४-१५-५,६ ॥
For Private And Personal Use Only