________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीशारीरकमीमांसाभाष्ये
[म.४. श्रवणात् , सर्वबन्धविनिर्मोकस्य च साक्षाच्छ्रवणात् । अतः परमेव बमोपासीनमर्चिरादिरातिवाहिको गणो नयतीति जैमिनेर्मतम् ॥ १३॥
इदानी बादरायणस्तु भगवान् स्वमतेन सिद्धान्तमाहअप्रतीकालम्बनान्नयतीति बादरायण उभयधा
च दोषात्तत्कतुश्च ।४।३।१४॥
अप्रतीकालम्बनान् प्रतीकालम्बनव्यतिरिक्तान् नयत्यचिरादिरातिवाहिको गण इति भगवान् बादरायणो मन्यते । एतदुक्तं भवतिकार्यमुपासीनानयतीति नायं पक्षस्सम्भवतिः परमेवोपासीनानित्ययमपि नियमो नास्ति; न च प्रतीकालम्बनानपि नयति ; अपितु ये परं ब्रह्मोपासते, ये चात्मानं प्रकृतिवियुक्तं ब्रह्मात्मकमुपासते; तानुभयविधानयति ये तु ब्रह्मकार्यान्तर्भूतनामादिकं वस्तु देवदत्तादिषु सिंहादिदृष्टिवत् ब्रह्मदृष्टया, केवलं वा तत्तद्वस्तूपासते, न तान्नयति। अतः परं ब्रह्मोपासीनानात्मानं च प्रकृतिवियुक्तं ब्रह्मात्मकमुपासीनान्नयति-इति।कुतः? उभयधा च दोषात् । कार्यमुपासीनानयतीति पक्षे १“अस्माग्छरीरात्समुत्थाय परं ज्योतिरुपसम्पद्य"इत्यादिकाः श्रुतयः प्रकुप्येयुः परमेवोपासीनानिति नियमे २“तद्य इत्थं विदुर्ये चेमेऽरण्ये श्रद्धा तप इत्युपासते तेर्चिषमभिसम्भवन्ति" इति पश्चाग्निविदोऽचिरादिगणो नयतीति श्रुतिः प्रकुप्येत् । अतः उभयस्मिन्नपि पक्षे दोषस्स्यात्। तस्मादुभयविधानयतीति। तदेतदाह-तत्क्रतुश्र-इति। तत्क्रतुः-तथोपासीनस्तथैव प्रामोतीत्यर्थः, ३"यथाक्रतुरस्मिन् लोके पुरुषो भवति तथेतः प्रेत्य भवति" ४"तं यथायथोपासते"इति न्यायात्।पश्चाग्निविदोऽप्यर्चिरादिना गतिश्रवणात् , अर्चिरादिना गतस्य ब्रह्मप्राप्त्यपुनरावृत्तिश्रवणाच्च । अत एव
१. छा. ८-३-४ ।।-२. छा. ५.१०.१ ॥-३. छा. ३-१४-१ ॥-४ ॥
For Private And Personal Use Only