SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४५० श्रीशारीरकमीमांसाभाष्ये च्छति विद्वान् । कुतः? तत्प्रथिते, प्रथितिः-प्रसिद्धिः; सर्वत्र तत्प्रत्यभिज्ञानादित्यर्थः ॥१॥ इति वेदान्तदीपे अचिराद्यधिकरणम् ॥ १॥ ...( श्रीशारीरकमीमांसाभाष्ये वाय्वधिकरणम् ॥२॥)... वायुमब्दादविशेषविशेषाभ्याम् ।४।३।२॥ ___अचिरादिनैव गच्छन्ति विद्वांस इत्युक्तम् । तत्राचिरादिके मार्गे छन्दोगाः मासादित्ययोरन्तराले संवत्सरमधीयते-"मासेभ्यः संवत्सरं संवत्सरादादित्यम्" इति । वाजसनेयिनस्तु तयोरेवान्तराले देवलोकं २ "मासेभ्यो देवलोकं देवलोकादादित्यम्" इति । उभयत्रापि मार्गस्यैकत्वादुभावुभयत्रोपसंहायौँ। तत्र मासादूर्ध्वमभिहितयोस्संवत्सरदेवलोकयोः पञ्चम्याऽभिहितस्य श्रोतक्रमस्य तुल्यत्वेऽपिर"अषिोऽहरह्न आपूर्यमाणपक्षमापूर्यमाणपक्षाद्यान् षडुदङ्डेतिमासांस्तान्" इत्यधिककालाना न्यूनकालेभ्य उत्तरोत्तरत्वेन निवेशदर्शनात्संवत्सरस्यैव मासादनन्तरं बुदौ विपरिवृत्तेः संवत्सर एव मासाचं निवेशयितव्य इति तत ऊर्ध्व देवलोक इति निश्चीयते । अन्यत्र वाजसनेयिनः ३“यदा वै पुरुषोऽस्माल्लोकात्मेति स वायुमागच्छति तस्मै स तत्र विजिहीते" यथा रथचक्रस्य खं तेन स ऊर्ध्वमाक्रमते स आदित्यमागच्छति" इत्यादित्यापूर्व वायुमधीयते। कौषीतकिनस्तु ४“स एतं देवयानं पन्थानमापद्यामिलोकमागच्छति स वायुलोकम्" इत्यग्निलोकशब्दनिर्दिष्टादर्चिषः परं वायुमधीयते । तत्र कौषीतकिनां पाठक्रमेणार्चिषः परत्वेन प्राप्तस्य वायोजिसनेयिनां ३"तेन स ऊर्ध्वमाक्रमते स आदित्यमागच्छति" इत्यूप्रशन्दनिर्दिष्टश्रोतक्रमेण पाठक्रमादलीयसा आदित्यात्पूर्व प्रवेशो १..छा, ४-१५-५ -२.. ८-२-२५॥-३. पू. ७-१०-१॥-४, को. १-म. ३ ॥ For Private And Personal Use Only
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy