________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. ३.] अर्चिरायधिकरणम् .
४४९ नापि स एवेति प्रतीयते । अन्यत्रापि सर्ववाग्मयादित्यादयः प्रत्यभिज्ञायन्ते ॥१॥
इति श्रीशारीरकमीमांसाभाष्ये अचिराद्यधिकरणम् ॥ १ ॥ वेदान्तसारे-अर्चिरादिना तत्मथितेः ॥ अर्चिरादिनैकेन विद्वान् गच्छति, सर्वासु श्रुतिषु तश्चिद्वैस्तत्प्रत्यभिज्ञानात् ॥१॥
इति वेदान्तसारे अर्चिरायधिकरणम् ॥ १ ॥ वेदान्तदीपे-अर्चिरादिना तत्प्रथितेः ॥ किं विद्वानर्चिरादिनैकेन मार्गेण गच्छति, उत तेन वाऽन्येन वेत्यनियम इति संशयः। तदर्थ परीक्ष्यतेकिं सर्वासु श्रुतिध्वर्चिरादिरेक एव मार्ग आम्नायते, उत तत्रतत्रान्य इति । यदाऽर्चिरादिरेक एव सर्वत्रोक्तः; तदा तेनैव गच्छति । यदा तत्रतत्रानाता अन्ये, तदाऽन्यैर्वाऽनेन वेत्यनियम इति। छान्दोग्यवाजसनेयकादिषु नानाविधाः गतिप्रकाराश्श्रूयन्ते। छान्दोग्ये? "यथा पुष्करपलाश आपो न श्लिष्यन्ते' इत्युपक्रम्य,२ "सर्वाणि...नयति"२ "सर्वेषु लोकेषुभाति य एवं वेद"२"अथ यदुचैवास्मिञ्च्छव्यं कुर्वन्ति यदुच नार्चिषमेवाभिसम्भवन्त्यर्चिषोऽहरह्न आपूर्यमा णपक्षमापूर्यमाणपक्षाद्यान् षडुदङ्डेति मासांस्तान्मासेभ्यस्संवत्सरं संवत्सरादादित्यमादित्याश्चन्द्रमसं चन्द्रमसो विद्युतं तत्पुरुषोऽमानवस्स एनान्ब्रह्म गमय त्येष देवपथो ब्रह्मपथ एतेन प्रतिपद्यमाना इमं मानवमावर्ते नावर्तन्ते"इतिबृह. दारण्यके ३“य एवमेतद्विदुर्ये चामी अरण्ये श्रद्धां सत्यमित्युपासते तेऽर्चिषमभिसम्भवन्स्यर्चिषोऽहरह्न आपूर्यमाणपक्षमापूर्यमाणपक्षाद्यान् षण्मासानुदङ्उदिस्य एति मासेभ्यो देवलोकं देवलोकादादित्यमादित्याद्वैद्युतं वैद्युतात्पुरुषोऽ. मानवस्स एत्य ब्रह्मलोकान्गमयति" इति। तत्रैवान्यथा ४ "यदा वै पुरुषोऽस्माल्लोकात्प्रेति स वायुलोकमागच्छति तस्मै स तत्र विजिहीते यथा रथचक्रस्य खं तेन स ऊर्ध्वमाक्रमते स आदित्यमागच्छति तस्मै स तत्र विजिहीते यथाऽऽड. म्बरस्य खं तेन स ऊर्ध्वमाक्रमते स चन्द्रमसमागच्छति तस्मै स तत्र विजिहीते यथा दुन्दुभेः खम्" इत्यादिषु। तेषां ब्रह्मप्राप्तौ नैरपेक्ष्यश्रवणात्तर्वाऽर्चिरादिना वेति विकल्प इति पर्वः पक्षः। राद्धान्तस्तु-सर्वत्रार्चिराद्यन्तर्भूतादित्यादीनां दर्शनात्स एवेति प्रत्यभिज्ञानात् , अन्यत्रोक्तानामन्यत्रोपसंहाराच, सर्वत्रार्चिरादिरेक एव मार्ग इति तेनैव गच्छति विद्वान। सूत्रार्थस्तु-अचिरादिनैव ग१. छा. ४-१४-३॥-२. छा, ४-१५-३,४,५॥ ३. पू. ८-२-१५॥-४. ब.७.१०.१॥
"57
For Private And Personal Use Only