________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४४८ श्रीशारीरकमीमांसाभाष्ये
[भ.४. यानमार्गमन्यथाऽधीयते १" स एतं देवयानं पन्थानमापद्याग्निलोकमागच्छति स वायुलोकं स वरुणलोकं स आदित्यलोकं स इन्द्रलोकं स प्रजापतिलोकं स ब्रह्मलोकम्" इति । तथा बृहदारण्यके २" य एवमेतद्विदुर्येचेमेऽरण्ये श्रद्धा सत्यमुपासते तेऽर्चिषमभिसम्भवन्ति अर्चिषोऽहरह्न अपूर्यमाणपक्षमापूर्यमाणपक्षाद्यान् षण्मासानुदडादित्य एति मासेभ्यो देवलोकं देवलोकादादित्यमादित्याद्वैद्युतं वैद्युतात्पुरुषोऽमानवस्स एत्य ब्रह्मलोकान् गमयति" इति । तत्रैव पुनरन्यथा ३“यदा वै पुरुषोऽस्माल्लोकात्पैति स वायुमागच्छति तस्मै स तत्र विजिहीते यथा रथचक्रस्य खं तेन स ऊर्ध्वमाक्रमते स आदित्यमागच्छति तस्मै स तत्र विजिहीते यथा आडम्बरस्य खं तेन स ऊध्र्वमाक्रमते स चन्द्रमसमागच्छति तस्मै स तत्र विजिहीते यथा दुन्दुभेः खम्" इत्यादि। तत्र संशयः-किमर्चिरादिरेक एव मार्ग आभिश्श्रुतिभिः प्रतिपाद्यत इति,तेनैव ब्रह्म गच्छति विद्वान् , उत तस्मादन्येऽन्यत्र मार्गा इति तैर्वाऽनेन वेत्यनियमः-इति । किं युक्तम् ? अनियम इति । कुतः ? अनेकरूपत्वानरपेक्ष्याचेति ॥
-(सिद्धान्तः )--- एवं प्राप्तेऽभिधीयते-अर्चिरादिना-इति। अर्चिरादिरेक एव मार्गस्सर्वत्र प्रतिपाद्यते । अतोऽचिरादिनैव गच्छति । कुतः १ तत्मथितेःतस्यैव सर्वत्र प्रथितेः। प्रथितिः-प्रसिद्धिः, तस्यैव सर्वत्र प्रत्यभिज्ञानादित्यर्थः। प्रत्यभिज्ञानात्स एव मार्गस्सर्वत्र न्यूनाधिकभावेन प्रतिपाद्यत इति विद्यागुणोपसंहारवदन्यत्रोक्तानामन्यत्रोपसंहारः क्रियते । छान्दोग्ये तावदुपकोसलविद्यायां पञ्चाग्निविद्यायां चैकरूप एवाम्नायते ; वाजसनेयके च पञ्चाग्निविद्यायां तथैवाचिरादिः अल्पान्तर आम्नायते अतस्त
१. को. १-अ. ३ ॥-२. २, ८-२-१५ ॥
३. पृ. ७-१०-१॥
For Private And Personal Use Only