________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीमने रामानुजाय नमः
श्रीभगवद्रामानुजविरचिते
श्रीशारीरकमीमांसाभाष्ये --(चतुर्थाध्याये - तृतीयः पादः- अर्चिराद्यधिकरणम् ॥१॥)..
अर्चिरादिना तत्प्रथितेः। ४।३।१॥
विदुष उत्क्रान्तस्य नाडीविशेषेण हार्दानुग्रहाद्गत्युपक्रम उक्तः। तस्य गच्छतो मार्ग इदानीं निर्णीयते । तत्र श्रुतिषु मार्गप्रकाराः बहुधा आम्नायन्ते; छान्दोग्ये तावत् १" यथा पुष्करपलाश आपो न श्लिष्यन्ते एवमेवंविदि पापं कर्म न श्लिष्यते " इत्युपक्रम्य ब्रह्मविद्यामुपदिश्याम्नायते २ “अथ यदु चैवास्मिञ्च्छव्यं कुर्वन्ति यदुच न अर्चिपमेवाभिसम्भवन्ति अर्चिषोऽहरह्न आपूर्यमाणपक्षमापूर्यमाणपक्षाद्यान् षडदन्डेति मासांस्तान् मासेभ्यः संवत्सरं संवत्सरादादित्यमादित्याचन्द्रमसं चन्द्रमसो विद्युतं तत्पुरुषोऽमानवः । स एनान् ब्रह्म गमयत्येष देवपथो ब्रह्म पथः एतेन प्रतिपद्यमाना इमं मानवमावर्त नावर्तन्ते" इति । तथाऽ. त्रैवाष्टमे ३"अथैतैरेव रश्मिभिरूप्रमाक्रमते" इति । कौषीतकिनश्च देव
१. छा. ४-१४-३॥-२. छा. ४-१५-५,६ ॥–३. छा. ८-६-५॥
For Private And Personal Use Only