________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४५१
पा. ३.)
वाय्वधिकरणम् . निश्चीयते । अत आदित्यात्पूर्व संवत्सरादूर्ध्व देवलोको वायुश्च प्राप्तौ । तत्रेदं चिन्त्यते-किं देवलोको वायुश्चार्थान्तरभूतौ यथेष्टक्रमेण विदानभिगच्छेत् , उतानान्तरत्वेन संवत्सरादूर्ध्व देवलोकं सन्तं वायुमभिगच्छेत्-इति । किं युक्तम् ? भिन्नार्थत्वम्, प्रसिद्धेः । भिन्नार्थत्वेचो
वंशब्देन पञ्चम्या चोभयोस्संवत्सरादित्यान्तराले श्रुतिक्रमेण प्राप्तत्वात् , विशेषाभावाच्च यथेष्टम्
---(सिद्धान्तः)....... इति प्राप्त उच्यते-वायुमब्दात्-इति। वायु संवत्सरादूर्ध्वमभिगच्छेत् । कुतः१ अविशेषविशेषाभ्यां वायोरेव निर्दिष्टत्वात् । देवलोकशब्दो हि अविशेषेण-सामान्येन देवानां लोक इत्यनेन रूपेण वायुमभिधत्ते । १“स वायुमागच्छति तस्मै स तत्र" इति वायुशब्दो विशेषेण वायुमभिधत्ते। अतो देवलोकवायुशब्दाभ्याम् अविशेषविशेषाभ्यां वायुरेवाभिधीयत इति संवत्सरादूर्ध्व वायुमेवाभिगच्छेत् । कौषीतकिनां वायुलोकशब्दश्वाग्निलोकशब्दवत् वायुश्चासौ लोकश्चेति व्युत्पत्त्या वायुमेवाभिधत्ते । वायुश्च देवानामावासभूत इत्यन्यत्र श्रूयते २ “योऽयं पवत एष देवानां गृहाः" इति ॥ २॥
इति श्रीशारीरकमीमांसाभाष्ये वाय्वधिकरणम् ॥ २॥ वेदान्तसारे-वायुमब्दादविशेषविशेषाभ्याम्॥ ३ "मासेभ्यस्संवत्सरं संवत्सरादादित्यम्" इत्यब्दादित्ययोर्मध्ये द्वयोः प्रकरणान्तरयोः एकत्र देवलोकः श्रुतः,इतरत्र वायुशब्दः। तत्र देवलोकशब्दोऽपि देवानां लोक इति वायो. रविशेषेण वाचकः । वायुशब्दश्च तस्यैव विशेषेण वाचक इति अविशेषविशेषाभ्यां देवलोकवायुशब्दाभ्यां वायुरेक एव विहित इत्यब्दादूर्ध्वमादित्यात्पूर्व वायुमेव निवेशयेत् ॥२॥
__इति वेदान्तसारे वाय्वधिकरणम् ॥ २ ॥
१. २. ७.१.-१॥-२ ॥-३. छा. ४-१५-५ ॥
For Private And Personal Use Only