________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४४४ श्रीशारीरकमीमांसाभाष्ये
[अ. ४. पश्चन्द्रं प्राप्तस्यापि ब्रह्मप्राप्तिरनिवार्या भीष्मादीनां योगप्रभावात् स्वच्छन्दमरणानां धर्मप्रवर्तनायोत्तरायणप्राशस्त्यप्रदर्शनार्थस्तथाविधाचारः॥
ननु च विदुषो मुमूर्षन् प्रति पुनरावृत्तिहेतुत्वेन कालविशेषविधिदृश्यते १“यत्र काले त्वनावृत्तिमावृत्तिं चैव योगिनः। प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ । अग्निोतिरुहश्शुक्लः षण्मासा उत्तरायणम् । तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः ॥ धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम्। तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते।।शुक्लकृष्णे गती होते जगतश्शाश्वते मते । एकया यात्यनावृत्तिमन्ययाऽऽवर्तते पुनः" इति तत्राहयोगिनः प्रति स्मर्येते स्मार्ते चैते।४।२॥२०॥
नान मुमूर्षन् प्रति मरणकालविशेषोपादानं स्मयते; अपितु योगिनः-योगनिष्ठान् प्रति स्मार्ते- स्मृतिविषयभूते-स्मर्तव्ये देवयानपिढ्याणाख्ये गती स्मयते योगाङ्गतयाऽनुदिनं स्मर्तुम् । तथा घुपसंहारः १"नेते मृती पार्थ जानन्योगी मुह्यति कश्चन । तस्मात्सर्वेषु कालेषु योगयुक्तो भवार्जुन" इति। १"अग्निोतिः" १“धूमो रात्रिः" इति च देवयानपित्याणे प्रत्यभिज्ञायते । उपक्रमे च १" यत्र काले तु "इति कालशब्दः कालाभिमानिदेवतातिवाहिकपरः, अनयादेः कालत्वासम्भवात् । अतः २" तेर्चिषमभिसम्भवन्ति" इति विहितदेवयानानुस्मृतिरत्र विद्यानिष्ठान् प्रति विधीयते, न मुमूर्धन् प्रति मरणकालविशेषः ॥ २० ॥
इति श्रीशारीरकमीमांसाभाष्ये दक्षिणायनाधिकरणम् ॥११ ॥
इति श्रीभगवद्रामानुजविरचिते श्रीशारीरकमीमांसाभाष्ये
चतुर्थस्याध्यायस्य द्वितीयः पादः॥२॥
१. गी. ८-२३,२४,२५,२६,२७ ॥–२. बृ. ८-२-१५ ॥
For Private And Personal Use Only