________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. २. ]
दक्षिणायनाधिकरणम् .
४४३
निशामरणस्य गर्हितत्वेन अधोगतिहेतुत्वान्न ब्रह्मप्राप्तिस्सम्भवतीति पूर्वः पक्षः। राद्धान्तस्तु - विद्यामाहात्म्यादुत्तरपूर्वाघयोरश्लेष विनाशश्रुतेरश्लिष्टविनष्टत्वात्, प्रारब्धस्यापि कर्मणः चरमदेहावधित्वाश्च बन्धहेत्वभावानिशि मृतस्यापि ब्रह्मप्राप्तिरस्येव - इति । अविद्वद्विषया निशामरणनिन्दा ||
सुत्रार्थस्तु - निशामरणनिन्दया निशि मृतस्य न ब्रह्मप्राप्तिरिति चेत्- तन्नसम्बन्धस्य यावदेह भावित्वात् अनारब्धकार्यकर्मसम्बन्धस्य विद्यया विनष्टत्वात् प्रारब्ध कार्यकर्मसम्बन्धस्यापि यावश्चवरमदेह भावित्वाद्वन्धहेत्वभावेन ब्रह्मप्राप्तिरस्त्येवेत्यर्थः । तदेतच्छ्रुतिश्च दर्शयति १ तस्य तावदेव चिरं यावन्न विमोक्ष्ये अथ सम्पत्स्ये" इति ॥ १८ ॥
इति वेदान्तदीपे निशाधिकरणम् ॥ १० ॥
( श्री शारीरकमीमांसाभाष्ये दक्षिणायनाधिकरणम् ॥ ११ ॥ ) . - अतश्चायनेऽपि दक्षिणे । ४ । २ । १९ ॥
निशि मृतस्यापि विदुषो ब्रह्मप्राप्तौ यो हेतुरुक्तः, तत एव हेतोfaster मृतस्य ब्रह्मप्राप्तिसिद्धा ||
अधिका शङ्का तु २" अथ यो दक्षिणे प्रमीयते पितृणामेव महिमानं गत्वा चन्द्रमसस्सायुज्यं गच्छति " इति दक्षिणायने मृतस्य चन्द्रप्राप्तिश्रवणात् चन्द्रं प्राप्तानां च ३" तेषां यदा तत्पर्यवैत्यथैतमेवाध्वानं पुनर्निवर्तन्ते " इति पुनरावृत्तिश्रवणात्, भीष्मादीनां च ब्रह्मविद्यानिष्ठानामुत्तरायणप्रतीक्षादर्शनाद्दक्षिणायने मृतस्य ब्रह्मप्राप्तिर्न सम्भवति इति ।।
परिहारस्तु - अविदुषां पितृयाणेन पथा चन्द्रं प्राप्तानामेव पुनरावृत्तिः, विदुषस्तु चन्द्रं प्राप्तस्यापि २ " तस्माद्ब्रह्मणो महिमानमानोति" इति वाक्यशेषात्तस्य दक्षिणायनमृतस्य चन्द्रप्राप्तिः ब्रह्म प्रपित्सतो विश्रमहेतुमात्रमिति गम्यते ; वाक्यशेषाभावेऽपि पूर्वोक्तादेव बन्धहेत्वभावात् विदु१. छा, ६-१४-२ ॥ २ तै. ना. ५२ - अनु ॥ - ३. छा. ५-१०-५ ॥
For Private And Personal Use Only