________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४४२ वेदान्तदीपे
[म. ४. ति । यद्यपि निशायां सूर्यरश्मिसम्भवादश्म्यनुसारेण गतिर्निशायामपि सम्भवति; तथापि निशामरणस्य शास्त्रेषु गर्हितत्वात्परमपुरुषार्थलक्षणब्रह्मप्राप्तिर्निशामृतस्य न सम्भवति । शास्त्रेषु दिवामरणं प्रशस्तम्, विपरीतं निशामरणं-१"दिवा च शुक्लपक्षश्च उत्तरायणमेव च। मुमूर्षता प्रशस्तानि विपरीतं तु गर्हितम्" इति । दिवामरणनिशामरणयोः प्रशस्तत्वविपरीतत्वे चोत्तमाधमगतिहेतुत्वेन स्याताम् । अतो निशि मरणमधोगतिहेतुत्वान ब्रह्मप्राप्तिहेतुरिति चेत्-तन्न, विदुषः कर्मसम्बन्धस्य यावदेहभावित्वात् । एतदुक्तं भवति-अनारब्धकार्याणामधोगति हेतुभूतानां कर्मणां विद्यासम्बन्धेनैव विनाशादुत्तरेषां चाश्लेषापारब्धकार्यस्य च चरमदेहावधित्वाद्वन्धहेत्वभावाद्विदुषो निशामृतस्यापि ब्रह्मप्राप्तिस्सिदैव । दर्शयति च श्रुतिः २ "तस्य तावदेव चिरं यावन्न विमोक्ष्ये अथ सम्पत्स्ये"इति । १"दिवा च शुक्लपक्षश्च" इत्यादिवचनमविद्वद्विषयम् ॥
____ इति श्रीशारीरकमीमांसाभाष्ये निशाधिकरणम् ॥ १० ॥
वेदान्तसारे-निशि नेतिचेन सम्बन्धस्य यावदेहभावित्वादर्शयति च ॥ १"दिवा च शुक्लपक्षश्च" इत्यारभ्य १"विपरीतन्तु गर्हितम्" इति निशामरणनिन्दनात् , निशि मृतस्य न ब्रह्मप्राप्तिरिति चेत्-न, कर्मसंबन्धस्य यावदेहभावित्वात् , प्रारब्धस्य यावश्चरमदेहावसानभावित्वाच, ब्रह्मप्राप्तिविघ्नहेत्वभावात् । दर्शयति च २"तस्य तादेव चिरं यावन विमोक्ष्ये अथ संपत्स्ये" इति । निशानिन्दा इतरपुरुषार्थविषया ॥१८॥
इति वेदान्तसारे निशाधिकरणम् ॥ १० ॥
वेदान्तदीपे-निशि नेतिचेन्न सम्बन्धस्य यावदेहभावित्वादर्शयति च ॥ विदुषा निशि मृतस्य ब्रह्मपाप्तिरस्ति, नेति संशयः । १"दिवा च शुक्लपक्षश्च उत्तरायणमेव च । मुमूर्षतां प्रशस्तानि विपरीतं तु गर्हितम्" इति
१॥-२. डा. ६-१४-२ ॥
For Private And Personal Use Only