________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. २.] निशाधिकरणम् .
४४१ चामुं च एवमेवैत आदित्यस्य रश्मय उभौ लोको गच्छन्तीमं चामुं च अमुष्मादादित्यात्मतायन्ते त आसु नाडीषु सप्ताः आभ्यो नाडीभ्यः प्रतायन्ते तेऽमुष्मिन्नादित्ये सप्ताः"इति । तस्मान्निश्यपि रश्मिसम्भवानिशि मृतानामपि विदुषां रश्म्यनुसारेणैव ब्रह्मप्राप्तिरस्त्येव ॥१७॥
इति श्रीशारीरकमीमांसाभाष्ये रश्म्यनुसाराधिकरणम् ॥ ९॥
वेदान्तसारे-रश्म्यनुसारी ॥ १ "अथैतैरेव रश्मिभिरूद्धमाक्रमते" इति श्रुतेः विद्वान् रश्म्यनुसार्येव गच्छति; निश्यपि रश्मयस्सम्भवन्त्येव,निदा. घादावुष्मोपलब्धेः; हेमन्तेऽनुपलब्धिस्तु हिमाभिभवकृता ॥ १७ ॥
इति वेदान्तसारे रश्म्यनुसाराधिकरणम् ॥ ९ ॥
वेदान्तदीपे-रश्म्यनुसारी ॥ १“अथ यत्रैतदस्माच्छरीरादुत्क्रामत्यथैतैरेव रश्मिभिरूप्रमाक्रमते" इति विद्वान् रश्म्यनुसारी गच्छतीति नियमस्सम्भवति, नेति संशयः । निशि मृतस्य विदुषः आदित्यरश्म्यनुसारासम्भपादनियम इति पूर्वः पक्षः । वचनं तु पक्षप्राप्तमनुवदति।राद्धान्तस्तु-वचनस्य पक्षप्राप्त्यनुवादित्वे "अथैतैरेव" इत्यवधारणविरोधः । नच निशि रश्मयो न सन्तीति । निश्यपि निदाघसमये ऊष्मोपलब्धेः सूक्ष्मास्सन्त्येवेति रश्म्यनुसार्येव गच्छति । हेमन्तेऽनुपलब्धिः दुर्दिन इव हिमाभिभवात् ॥ १७॥
इति वेदान्तदीपे रश्म्यनुसाराधिकरणम् ॥ ९ ।।
(श्रीशारीरकमीमांसाभाष्ये निशाधिकरणम् ॥ १०॥)...
निशि नेतिचेन्न सम्बन्धस्य यावद्देहभावित्वाद्दर्श
यति च ।४।२।१८॥ इदमिदानी चिन्त्यते विदुषो निशि मृतस्य ब्रह्मप्राप्तिरस्ति, ने१. छा. ८-६-५॥
*56
For Private And Personal Use Only