________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४४५
पा. २.] दक्षिणायनाधिकरणम्.
वेदान्तसारे-अतश्चायनेऽपि दक्षिणे॥ अतः-बन्धहेत्वभावादेव दक्षिणायनमृतस्यापि विदुषो ब्रह्मप्राप्तिरस्त्येव ॥१९॥
योगिनः प्रति स्मयेते स्मार्ते चैते॥ १ "यत्र काले त्वनावृत्तिमावृत्ति चैव योगिनः" इति न मरणकालस्स्मयते; अपितु योगिनो विद्यानिष्ठान्प्रति अचिरादिका तद्विपरीताचेति एते-स्माते-स्मृतिविषयभूते, स्मर्येते.१ "नैते स. ती प्रार्थ जानन्योगी मुह्यति कश्चन" इतिवचनात् ॥ २० ॥
इति वेदान्तसारे दक्षिणायनाधिकरणम् ॥ ११ ॥
इति श्रीभगवद्रामानुजविरचिते वेदान्तसारे चतुर्थस्याध्यायस्य
द्वितीयः पादः ॥२॥
वेदान्तदीपे-अतश्चायनेऽपि दक्षिणे ॥ दक्षिणायने मृतस्य विदुषो ब्रह्मप्राप्तिरस्ति, नेति संशयः । २"अथ यो दक्षिणे प्रमीयते पितृणामेव महिमानं गत्वा चन्द्रमसस्सायुज्यं गच्छति" इति विदुषो दक्षिणायने मृतस्य चन्द्रसायुज्यश्रवणात् , चन्द्रं प्राप्तानाम् ३"अथैतमेवाध्वानं पुनर्निवर्तन्ते" इति वचनाच, दक्षिणायनमृतस्य ब्रह्मप्राप्तिन सम्भवतीति पूर्वः पक्षः। राद्धान्तस्तु. पूर्वोक्ताद्वन्धहेत्वभावाद्विदुषश्चन्द्र प्राप्तस्यापि पुनरावृत्तिर्न सम्भवति । चन्द्रसायुज्यवचनं विदुषो ब्रह्म पेप्सोर्विश्रमस्थानमात्रविषयम् आवृत्तिवचनंत्वविदुषामेव। सूत्रार्थस्तु-यतो हेतोर्निशि मृतस्यापि ब्रह्मप्राप्तिः, तत एव बन्धहेत्वभावाइक्षिणायने मृतस्यापि ब्रह्मप्राप्तिरस्त्येव ॥ १९॥
१“यत्र काले त्वनावृत्तिमावृत्तिं चैव योगिनः" इति मरणकालविशेषः स्मर्यत इति चेत्, तत्राह
योगिनः प्रति स्मर्येते स्मार्ते चैते ॥ योगिनः - ब्रह्मविद्यानिष्ठान्प्रति एते-देवयानपितृयाणगती, स्मार्त स्मर्येते स्माते-स्मृतिविषयभूते अहरहस्स्मर्तव्ये. स्मर्येते इस्यर्थः--- १" यत्र काले त्वनावृत्तिमावृत्तिं चैव योगिनः"
१. गी. ८-२३-२७ ॥--२. तै. ना, ५२-अनु ॥–३. छा. ५-१०-५॥
For Private And Personal Use Only