________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
४३८
श्रीशारीरकमीमांसाभाष्ये
[अ. ४.
aaraay अविभागो वचनात् ॥ सेयं परमात्मनि सम्पत्तिः किं प्राकृतप्रलयवत्कारणापत्तिरूपा, उत मनःप्रभृतिसम्पत्तिवदविश्लेषमात्रमिति संशयः । परमात्मनः कारणत्वात् तत्सम्पत्तिवचनाच्च कारणापत्तिरेवेति पूर्वः पक्षः । राद्धान्तस्तु – १" "वानसि सम्पद्यते" इति श्रुतस्यैव सम्पत्तिवचनस्य सर्वत्रानुषङ्गादत्रानुषक्तस्य चाभिधानवैरूप्यासम्भवादत्राप्यविभागःअविश्लेष एवोच्यते । सूत्रमपि व्याख्यातम् ॥ १५ ॥
इति वेदान्तदीपे अविभागाधिकरणम् || ७ |
Acharya Shri Kailassagarsuri Gyanmandir
( श्रीशारीरकमीमांसाभाष्ये तदोकोधिकरणम् ॥ ८ ॥ ) -
तदोकोऽग्रज्वलनं तत्प्रकाशितद्वारो विद्यासामर्थ्यातच्छेषगत्यनुस्मृतियोगाच्च हार्दानुगृहीतश्शताधिकया । ४ । २ । १६॥
एवं गत्युपक्रमावधि विद्वदविदुषोस्समानाकार उत्क्रान्तिप्रकार उक्तः इदानीं विदुषो विशेष उच्यते । तवेदमाम्नायते - २ शतं चैका च हृदयस्य नाड्यस्तासां मूर्धानमभिनिस्सृतैका । तयोर्ध्वमायन्नमृतत्वमेति विष्वङ्ङन्या उत्क्रमणे भवन्ति" इति । अनया नाडीनां शताधिकया मूर्धन्यनायैव विदुषो गमनम्, अन्याभिरेव चाविदुषो गमनमित्ययं नियम उपपद्यते, नेति संशयः । किं युक्तम् नियमो नोपपद्यत इति । कुतः १ नाडीनां भूयस्त्वादतिसूक्ष्मत्वाच्च दुर्विवेचतया पुरुषेणोपादातुमशक्यत्वात् । २" तयोर्ध्वमायन्नमृतत्वमेति विष्वङ्ङन्या उत्क्रमणे भवन्ति " इति यादृच्छिकीमुत्क्रान्तिमनुवदतीति युक्तमिति ॥
१. छा. ६-८-६ ॥२. कठ. २-६-१६ ॥
For Private And Personal Use Only