________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा.२.]
अविभागाधिकरणम् . वेन परसम्पत्तौ प्रयोजनाभावात् यथाकर्म यथाविद्यमिति पूर्वः पक्षः । सर्वस्य परदेवताकार्यत्वेन तदात्मकत्वाद्गन्तव्यस्थानमिदं १" परस्यां देवतायाम्" इ. त्युच्यते । राधान्तस्तु-तानि परे परस्मिन्ब्रह्मणि सम्पद्यन्ते ; १ "तेजः परस्यां देवतायाम्" इति ह्याह श्रुतिः।यथाश्रुति विश्रमस्थानत्वेन कार्य परिकल्प्य. मित्यर्थः। सूत्रं च व्याख्यातम् ॥ १४ ॥
___ इति वेदान्तदीपे परसम्पत्त्यधिकरणम् ॥ ६ ॥ m श्रीशारीरकमीमांसाभाष्ये अविभागाधिकरणम् ॥७॥)--
अविभोगो वचनात् । ४।२।१५॥
सेयं परमात्मनि सम्पत्तिः किं प्राकृतलयवत्कारणापत्तिरूपा, उत १" वाङ्मनसि" इत्यादिवदविभागरूपेति चिन्तायां-परमात्मनस्सर्वेषां योनिभूतत्वात्कारणापत्तिरूपा
..(सिद्धान्तः)..... इति प्राप्त उच्यते-अविभागः-इति।अपृथग्भावः-पृथग्व्यवहारानहसंसर्ग इत्यर्थः। कुतः ? वचनात् १"तेजः परस्यां देवतायाम्"इत्यत्रापि १" वाङ्मनसि सम्पद्यते" इत्यतस्सम्पद्यत इति वचनस्यानुषङ्गात् , तस्य च संसर्गविशेषवाचित्वात् , अनुषक्तस्याभिधानवैरूप्ये प्रमाणाभावात् , उत्क्रान्तिवेलयां कारणापत्तिप्रयोजनाभावात् पुनस्तत्राव्यक्तादिसृष्टयवचनाच ॥ १५॥
इति श्रीशारीरकमीमांसाभाष्ये अविभागाधिकरणम् ॥ ७ ॥
वेदान्तसारे--अविभोगो वचनात्।।परदेवतासम्पत्तिवचनमविभागमात्रपरम् , “१वाङ्मनसि सम्पद्यते” इति सम्पत्तिपदस्यैवात्रानुषक्तस्यार्थान्तरपरत्वे प्रमाणाभावात् ; मनःप्रभृतिषु हि प्रलयासम्भवादविभागमात्रपरम्॥
इति वेदान्तसारे अविभागाधिकरणम् ॥ ७ ॥
१. छा. ६.८.६॥
For Private And Personal Use Only