________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
~
श्रीशारीरकमीमांसाभाष्ये परसम्पत्त्यधिकरणम् ॥ ६ ॥ ---
तानि परे तथाह्याह । ४ । २ । १४ ॥
सकरणग्रामः समाणः करणाध्यक्षः प्रत्यगात्मा उत्क्रान्तिवेलायां तेजःप्रभृतिभूतसूक्ष्मेषु सम्पद्यत इत्युक्तम् ; सैषा सम्पत्तिर्विदुषो न वि - द्यत इत्याशङ्कय परिहृतम् ; तानि पुनर्जीवपरिष्वक्तानि भूतसूक्ष्माणि किं यथाकर्म यथाविधं च स्वकार्याय गच्छन्ति, उत परमात्मनि सम्पयन्त इति विशये मध्ये परमात्मसम्पत्तौ सुखदुःखोपभोगरूपकार्यदर्शनात्, तदुपभोगानुगुण्येन यथाकर्म यथाविधं च गच्छन्ति~ ( सिद्धान्तः ) -
Acharya Shri Kailassagarsuri Gyanmandir
इति प्राप्त उच्यते - तानि परे - इति । तानि परस्मिन्नात्मनि सम्पद्यन्ते ; कुतः १ तथाह्याह श्रुतिः - १" तेजः परस्यां देवतायाम् " इति । यथा श्रुतिस्तदनुगुणं कार्य कल्प्यमित्यर्थः । सुषुप्तिप्रलययोर्यथा परमात्मसम्पत्त्या सुखदुःखोपभोगायासविश्रमः ; तद्वदिहापि ॥ १४ ॥
इति श्रीशारीरकमीमांसाभाष्ये परसम्पत्त्यधिकरणम् ॥ ६ ॥
वेदान्तसारे - तानि परे तथाह्याह । १" तेजः परस्यां देवतायाम्" इति श्रुतेः परदेवतासम्पत्तिरुत्क्रममाणस्य विश्रमस्थानमिति तानि भूतानि जीवसंयुक्तानि परदेवतायां संपद्यन्ते ॥ १४ ॥
इति वेदान्तसारे परसम्पत्त्यधिकरणम् || ६ ||
वेदान्तदीपेतानि परे तथाह्याह ॥ १" प्राणस्तेजसि " इति तेजशब्दनिर्दिष्टानि भूतानि जीवपरिष्वक्तानि किं परस्यां देवतायां सम्पद्यन्ते, उत यथाकर्म यथाविद्यं च गच्छन्तीति संशयः । तदानीं सुखदुःखोपभोगाद्यभा
१. छा. ६-८-६ ॥
For Private And Personal Use Only