________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. २.] आवृत्युपक्रमाधिकरणम् .
४३५ तदापीतेस्संसारव्यपदेशात् ॥ तत्-अमृतत्वम् ,उक्तप्रकारमेव। कुतः! आपीतेस्संसारव्यपदेशात्-अपीतिः-ब्रह्मप्राप्तिः ; अर्चिरादिकया गत्या देशविशेषं गत्वा यावब्रह्म प्राप्यते ; तावत्संसारः शरीरसम्बन्धी हि व्यपदिश्यते॥
गतिव्यपदेशादेव शरीरादुत्क्रान्तस्य कथं शरीरसम्बन्ध इत्यत्राह
सूक्ष्म प्रमाणतश्च तथोपलब्धेः॥ सूक्ष्मशरीरमनुवर्तते, गतिव्यपदे शात् । न केवलं गतिव्यपदेशादेव, प्रमाणान्तरतश्च तथा सूक्ष्मशरीरवत्त्वस्योपलब्धेश्च । विदुषोऽचिरादिकया गत्या गच्छतश्चन्द्रमसा संवादोऽयमुपदिश्यते १ "तं प्रीत ब्रूयात्"२ "सत्यं ब्रूयात्" इत्यादिना ॥९॥
नोपमर्दैनातः॥ अतः उक्ताद्धेतुकलापात् , ३ "अथ मोऽमृतो भवति" इतिवचनं न देहसम्बन्धोपमर्दैनामृतत्वं वदति; अपितूक्तमेवोपासनारम्भरूपं वदतीत्यर्थः ॥ १० ॥
अस्यैव चोपपत्तेरूष्मा ॥ अस्य सूक्ष्मशरीरस्य विद्यमानत्वोपपत्तेश्च न देहसम्बन्धोपमर्दैन । उपलभ्यते ह्यत्क्रममाणस्य विदुषः क्वचिदूष्मा सूक्ष्मदेहगुणः, नचायं स्थूलदेहगुणः, अन्यत्रानुपलब्धेः । अतो विद्वान् सूक्ष्मशरीरेणोत्क्रामति ॥ ११॥
प्रतिषेधादिति चेन्न शारीरात्स्पष्टो ह्येकेषाम् ॥ ४॥ स एतास्तेजोमात्राः" इत्यारभ्य ४"इति तु कामयमानः" इत्यन्तेनाविदुषः उत्क्रान्तिप्रकारं लोकान्तरगमनं पुनरावृत्ति चाभिधाय, ५"अथाकामयमानः"इत्यादिना ५"न तस्य प्राणा उत्क्रामन्ति ब्रह्मैव सन् ब्रह्माप्येति' इति विदुष उत्क्रान्तिप्रतिषेधादुक्तप्रकारो नोपपद्यत इति चेत्-तन्न शारीरात्प्राणानामविश्लेषोऽनेनोच्यते । तस्य अकामयमानस्य विदुषश्शारीरस्य, प्राणास्वस्मान्नोत्क्रामन्ति । देवयानेन गमनाय सहैव तिष्ठन्ति । अयमर्थः स्पष्टो होकेषां - माध्यन्दिनशाखिनां पाठे ४"योऽकामो निष्काम आप्तकाम आत्मकामो न तस्मात्प्राणा उत्क्रामन्ति' इति ॥
स्मयेते च ॥ स्मर्यते च विदुषोऽपि मूर्धन्यनाड्योत्क्रान्तिः ६"ऊर्ध्वमेकस्स्थितस्तेषां यो भित्त्वा सूर्यमण्डलम् । ब्रह्मलोकमतिक्रम्य तेन याति पर गतिम्" इति ॥ १३॥
इति वेदान्तदीपे आसृत्युपक्रमाधिकरणम् ॥५॥
४. ३.६-४-१॥--५.बृ
१. कौषी. १-२ ॥ --- २ ॥–३. कठ. २-६.१४ ॥ ६-४-६॥-६. याज्ञवल्क्य . अध्यात्मप्र. १६७-को ।
For Private And Personal Use Only