________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४३२
श्रीशारीरकमीमांसाभाष्ये [अ. ४. र्वत्र आतभागप्रश्नऽपि विदुष उत्क्रान्तिप्रतिषेधो दृश्यते ? "अप पुनर्मृत्यु जयति" इति विद्वांस प्रस्तुत्य १" याज्ञवल्क्येति होवाच यत्रायं पुरुषो म्रियते उदस्मात्माणाः कामन्त्याहो न"इति पृष्टः"१ "नेति होवाच याज्ञवल्क्योऽत्रैव समवलीयन्ते स उच्छवयत्याध्मातो मृतः शेते" इति । अतो विद्वानिहैवामृतत्वं प्रामोतीति चेत्-तन्न,शारीरात्-प्रत्यगात्मनः प्राणानामु स्क्रान्तिात्र प्रतिषिध्यते न शरीरात २“न तस्य प्राणा उत्तामन्ति" इत्यत्र तच्छब्देनर “अथाकामयमानः" इति प्रकृतश्शारीर एव परामृश्यते; नाश्रुतं शरीरम् । २"तस्य" इति षष्ठया प्राणानां सम्बन्धित्वेन शारीरो निर्दिष्टः नतूत्तान्त्यपादानत्वेन उत्तान्त्यपादानं तु शरीरमेवेति चेत्न,अपादानापेक्षायामश्रुताच्छरीरात्सम्बन्धितया श्रुतस्यात्मन एव सन्निहितत्वेनापादानतयापि ग्राह्यत्वात् । किश्च प्राणानां जीवसम्बन्धितयैव प्रज्ञातानां तत्सम्बन्धकथने प्रयोजनाभावात्सम्बन्धमानवाचिन्या षष्ठया अपादानमेव विशेष इति निश्चीयते। यथा 'नटस्य शृणोति'इति । नचात्र विवदितव्यं-स्पष्टो होकेषां माध्यन्दिनानामानाये शारीरो जीव एवापादानमिति २“योऽकामो निष्काम आप्तकाम आत्मकामो न तस्मात्याणा उत्क्रामन्ति" इति । शारीरात्पाणानामुत्क्रान्तिप्रसङ्गाभावात्तनिषेधो नोपपद्यत इति चेत्-न,३"तस्य तावदेव चिरम्"इति विदुषश्शरीरवियोगकाले ब्रह्मसम्पत्तिवचनेन प्राणानामपि तस्मिन् काले शारीराद्विदुषो वियोगः प्रसज्यते; ततश्च देवयानेन पथा ब्रह्मसम्मत्तिर्नोपपद्यत इति।२" न तस्य प्राणा उत्तामन्ति " देवयानेन पथा ब्रह्मप्राप्तः प्राग्जीवाद्विदुषोऽपि प्राणा न विश्लिष्यन्तीत्युच्यते । आर्तभागप्रश्नोऽपि यदा विद्वद्विषयः; तदा अयमेव परिहारः; स त्वविद्वद्विषयः, तत्र प्रश्नपतिवचनयोः ब्रह्मविद्याप्रसङ्गादर्शनात् । तत्र हि ग्रहानिग्रहरूपेणेन्द्रियेन्द्रियार्थस्वभावः, अपामग्न्य
१. इ. ५-२-१०, ११॥
२. वृ. ६-४-६ ।।-३. छा. ६-१४-२ ॥
For Private And Personal Use Only