________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. २.]
आसृत्युपक्रमाधिकरणम् . नोपमर्दैनातः।४।२।१०॥ अतः १ "यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि स्थिताः । अथ मोऽमृतो भवत्यत्र ब्रह्म समश्नुते" इति वचनं न बन्धोपमर्दैनामृतत्वं वदति ॥१०॥
अस्यैव चोपपत्तेरूष्मा।४।२।११॥
अस्य-सूक्ष्मशरीरस्य कचिद्विद्यमानत्वोपपत्तेर्विदुषः प्रक्रान्तमरणस्य मरणात्मागृष्मा स्थूले शरीरे काचित्क उपलभ्यते । नच स्थूलस्यैव शरीरस्यायमूष्मा, अन्यत्रानुपलब्धेः । ततश्चोष्मणः कचिदुपलब्धिर्विदुपस्सूक्ष्मशरीरस्योत्क्रान्तिनिवन्धनेति गम्यते । तस्माद्विदुषोऽप्यासृत्युपकमात्समानोत्क्रान्तिरिति मुष्ठतम् ॥ ११ ॥
पुनरपि विदुष उत्क्रान्तिर्न सम्भवतीत्याशङ्कय परिहियतेप्रतिषेधादिति चेन्न शारीरात्स्पष्टो ह्येके
षाम् ।४।२।१२॥ यदुक्तं विदुषोऽप्युत्क्रान्तिस्समानेति; तन्नोपपद्यते, विदुष उत्कान्तिप्रतिषेधात् । तथाहि-२"स एतास्तेजोमात्रास्समभ्याददानो हृदयमेवावपक्रामति" इत्युपक्रम्य २ "तेन प्रद्योतेनैष आत्मा निष्कामति तमुत्का. मन्तं प्राणोऽनूत्कामति" इत्यविदुष उत्क्रान्तिप्रकारमभिधाय ३ " अन्यअवतरं कल्याणतरं रूपं कुरुते" इति देहान्तरपरिग्रहं चाभिधाय ४"पाप्यान्तं कर्मणस्तस्य यत्किचेह करोत्ययम्। तस्माल्लोकात्पुनरेत्यस्मै लोकाय कर्मणे इति तु कामयमानः" इत्यविद्वद्विषयं परिसमाप्य ४"अयाकामयमानो योऽकामो निष्काम आप्तकाम आत्मकामः न तस्य माणा उत्कामन्ति ब्रह्मैव सन् ब्रह्माप्येति" इति विदुष उत्क्रान्तिः प्रतिषिध्यते । तया पू. १. का. २.६.१४ ॥ ---२. १. ६.४-१, २॥ ---३. इ. ६-४.४ ॥ -४. 1. 1-४-६॥
मन्तं प्राणोऽनकार रूपं कुरुते” इति दहा तस्माल्लोकापुन
For Private And Personal Use Only