________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४३३
पा. २.]
आमृत्युपक्रमाधिकरणम्. मत्वं, म्रियमाणस्य जीवस्य प्राणापरित्यागः, मृतस्य नामवाच्यकीय॑नुवृत्तिः, तस्य च पुण्यपाषानुगुणगतिप्राप्तिरित्येतेऽर्थाः प्रश्नपूर्वकं प्रत्युक्ताः। सत्र च १"अप पुनर्मुत्युं जयति इति अपामग्न्यन्नत्वज्ञानादग्निजय एव मृत्युजय उच्यते। अतो नात्र विदुषः प्रसङ्गः। अविदुषस्तु प्राणानुत्क्रान्तिवचनं-स्थूलदेहवत्पाणा न मुञ्चन्ति, अपि तु भूतसूक्ष्मवज्जीवं परिष्वज्य गछन्ति-इति प्रतिपादयतीति निरवद्यम् ॥ १२ ॥
स्मर्यते च ।४।२।१३ ॥
मर्यते च विदुषोऽपि मूर्धन्यनाड्योत्क्रान्तिः २ "ऊर्ध्वमेकः स्थितस्तेषां यो भित्त्वा सूर्यमण्डलम्।ब्रह्मलोकमतिक्रम्य तेन याति परां गतिम्" इति ॥ १३ ॥
__इति श्रीशारीरकमीमांसाभाष्ये आसृत्युपक्रमाधिकरणम्॥ ५ ॥
वेदान्तसारे-समाना चामृत्युपक्रमादमृतत्वं चानुपोष्य ॥ अर्चिरादिगत्युपक्रमात्प्रागुत्क्रान्तिः विद्वदविदुषोस्लमाना, विदुषोऽचिरादिगत्या ब्र. मप्राप्तिश्रुतेः। “३ यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि स्थिताः। अथ मोऽमृतो भवत्यत्र ब्रह्म समश्नुते” इति अत्रैव अमृतत्वब्रह्मप्राप्तिवचनं शरीरेन्द्रि यादिसम्बन्धमदग्भ्वैवोपासनारम्भाभिप्रायमित्युपगन्तव्यमित्यर्थः ॥७॥
तदापीतेस्संसारव्यपदेशात् ॥ अर्चिरादिगमनेन ब्रह्मप्राप्तेः प्राक् श. रीरसम्बन्धव्यपदेशात्तदमृतत्वादिवचनमुक्तप्रकारमेव ॥ ८ ॥
सूक्ष्म प्रमाणतश्च तथोपलब्धेः ॥ शरीरादुत्कान्तस्यापि सूक्ष्मशरीरमनुवर्तते ; अन्यथा गत्यनुपपत्तेः। न केवलं गत्यनुपपत्तिमात्रं सूक्ष्मशरीरवत्त्वे प्रमाणम् , चन्द्रमसा संवादादिप्रमाणान्तरतश्च सूक्ष्मशरीरवत्त्वोपलब्धेः४"तं प्रति ब्रूयात्"५"सत्यं ब्रूयात्" इति ॥९॥
नोपमर्दैनातः॥ अतः-उक्ताद्धेतोः, ३“अथ मोऽमृतो भवति" इत्याद्यमृतत्वचनं न देहसम्बन्धोपमर्दैन ॥ १० ॥
१. बू.५-२-१०॥-२. याज्ञवल्क्य. अध्यात्मप्र. १६७-भो||----३. कठ. २-६-१४॥ -४. कौषी, १-२॥
*55
For Private And Personal Use Only