________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. २. मनोधिकरणम्.
४२५ इति वचनं १"वानसि सम्पद्यते" इति वचनवदुपपन्नम् , २"तस्मादुपशान्ततेजा अपुनर्भवमिन्द्रियैर्मनसि सम्पद्यमानैः" इति ॥२॥
इति वेदान्तदीपे वागधिकरणम् ॥ १ ॥
--
(श्रीशारीरकमीमांसाभाष्ये मनोधिकरणम् ॥ २॥).-..
तन्मनः प्राण उत्तरात् । ४।२।३॥
तत्-सर्वेन्द्रियसंयुक्तं मनः प्राणे सम्पयते-प्राणेन संयुज्यते न मनोवृत्तिमात्रम् । कुतः? उत्तरात्-१"मनः प्राणे" इति वाक्यात् ।
अधिकाशङ्का तु-४"अन्नमयं हि सोम्य मनः"इति वचनान्मनसोऽनप्रकृतित्वमवगम्यते; अन्नस्य च ३"ता अन्नमसृजन्त" इत्यम्मयत्वं सिद्धम्, ३"आपोमयः प्राणः" इति चाप्पकृतित्वं प्राणस्यावगम्यते, अतो मनः प्राणे सम्पद्यत इत्यत्र प्राणशब्देन प्राणप्रकृतिभूता अपो निर्दिश्य तासु मनस्सम्पत्तिप्रतिपादने परम्परया स्वकारणे लय इति सम्पत्तिवचनमुपपन्नं भवति-इति ॥
परिहारस्तु ३“अन्नमयं हि सोम्य मनः, आपोमयः प्राणः" इति मनःपाणयोरन्नेनाद्भिश्चाप्यायनमुच्यते; न तत्प्रकृतित्वम् ,आहङ्कारिकत्वान्मनसः, आकाशविकारत्वाच्च प्राणस्य । प्राणशब्देनापां लक्षणा च स्यात्-इति ॥३॥
इति श्रीशारीरकमीमांसाभाष्ये मनोधिकरणम् ॥ २ ॥
वेदान्तसार-तन्मनः प्राण उत्तरात् ।। उत्तरात् १"मनः प्राणे' इति शब्दात् सर्वेन्द्रिययुक्तं मनः प्राणे संयुज्यते ॥ ३ ॥
इति वेदान्तसारे मनोधिकरणम् ॥ २॥
२॥-३. छा. ६-६-५॥--४. छा. ६.२-४ ॥
१. छा. ६.८.६ ॥
*54
For Private And Personal Use Only