SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४२४ वेदान्तदीपे अि.४. सि सम्पत्तिर्नोपपद्यत इतिः तत् १ “वामनसि सम्पद्यते" इति वचनान्मनसा वाक्संयुज्यते; नतु तत्र लीयत इति परिहर्तव्यम् ॥ १॥ अत एव सर्वाण्यनु । ४।२।२॥ यतो वाचो मनसा संयोगमात्र सम्पत्तिः, न तु लयः; अत एव वाचमनु सर्वेषामिन्द्रियाणां मनसि सम्पत्तिश्रुतिरुपपद्यते, २"तस्मादुपशान्ततेजा अपुनर्भवमिन्द्रियैर्मनास सम्पद्यमानः" इति ॥ २॥ इति श्रीशारीरकमीमांसाभाष्ये वागधिकरणम् ॥ १॥ वेदान्तसारे-वाड्मनसि दर्शनाच्छन्दाच॥ १"अस्य सोम्य पुरुषस्य प्रयतो वामनसि सम्पद्यते" इति शब्दात् ; उत्क्रान्तौ मनसः प्रागेव वाच उपरतिदर्शनाच वाङ्मनसि ३संपद्यते ॥१॥ ___अत एव सर्वाण्यनु ॥ अतः४'इन्द्रियैर्मनसि सम्पद्यमानैः” इति श. ब्दात् , उपरतिदर्शनाच, वाचमनु सर्वाणीन्द्रियाणि मनसि च संयुज्यन्ते॥२॥ इति वेदान्तसारे वागधिकरणम् ॥ १ ॥ वेदान्तदीपे-वाङ्मनसि दर्शनाच्छब्दाच्च ।। १ 'अस्य सोम्य पुरुषस्य प्रयतो वामनसि सम्पद्यते मनः प्राणे" इत्यादिकोत्क्रान्तिविषयाऽन्नाय. ते ; तत्र किं वागिन्द्रियं मनसि सम्पद्यते, उत वाग्वृत्तिमात्रमिति संशयः । वाचो मनःप्रकृतित्वाभावात् स्वरूपलयस्तत्र न संभवतीति वाग्वृत्तिमात्राभिप्रायमिति पूर्वः पक्षः । राद्धान्तस्तु-अकारणे सम्पत्त्यभावस्य वाग्वृत्तावपि तुल्यत्वदर्शनात् १ वाङानसि” इति वाक्स्वरूपस्यैव सम्पत्तिः । शब्दाच स्वरूपमेव सम्पद्यते १"वाङमनसि सम्पद्यते" इति वाक्स्वरूपसम्पत्तावेव हि शब्दः; न वृत्तिमात्रसम्पत्तौ। अकारणे लयाभावात्सम्पत्तिशब्दस्संयोगाभिप्रायः । सूत्र च व्याख्यातम् ॥१॥ अत एव सर्वाण्यनु ॥ यतो वाचो मनसि संयोगमात्रमुच्यते ; न तु लयः ; अत एव तदानीं "५सर्वाणीन्द्रियाणि वाचमनु मनसि सम्पद्यन्ते" १. छा. ६-८-६ ॥२॥-३. संपद्यते-युज्यते इति क्वचित्पाठः ॥-४॥-५॥ For Private And Personal Use Only
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy