________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४२६
[अ. ४.
श्रीशारीरकमीमांसाभाज्ये वेदान्तदीपे–तन्मनः प्राण उत्तरात् ॥ १“मनः प्राणे" इस्यत्र किं प्राणशब्देनाप उच्यन्ते, उत प्राण एवेति संशयः। प्राणस्य मनःप्रकृतित्वाभावात् २ "अन्नमयं हि सोम्य मनः" इति मनसोऽन्नमयत्वश्रवणात् , अपां चान प्रकृतित्वेन, तत्संपत्तिरुपपद्यत इति प्राणशब्देनाप उच्यन्त इति पूर्वः पक्षः; २"आपोमयः प्राणः" इति ह्यम्मयत्वात्प्राणस्य प्राणशब्देनापो वक्तुं युज्यन्तेइति । राधान्तस्तु--२"अन्नमयं हि सोम्य मनः आपोमयः प्राणः" इति मनः प्राणयोर्न तत्तत्प्रकृतित्वमुच्यते; अपि तु तदाप्यायनम्, आहङ्कारिकत्वान्मनसः, प्राणस्य चाकाशप्रकृतित्वात् । अतः वामनसीतिवत् तदुत्तरात् १"मनः प्राणे" इति शब्दात् , तत् सर्वेन्द्रियसंयुक्तं मनः प्राणे संयुज्यते ॥ ३ ॥
इति वेदान्तदीपे मनोधिकरणम् ॥ २ ॥
...(श्रीशारीरकमीमांसाभाष्ये अध्यक्षाधिकरणम् ॥ ३॥)---
सोऽध्यक्ष तदुपगमादिभ्यः।४।२।४॥ ___ यथा ? “वामनसि सम्पद्यते, मनःमाणे" इतिवचनानुरोधेन मन:प्राणयोरेव वाङ्मनसयोस्सम्पत्तिः, तथा १ "प्राणस्तेजसि" इति वचनातेजस्येव प्राणस्सम्पद्यते
..(सिद्धान्तः) --- इति प्राप्त उच्यते-सोऽध्यक्षे-इति। सःपाणः,अध्यक्षे करणाधिपे जीवे सम्पद्यते । कुतः? तदुपगमादिभ्यः-प्राणस्य जीवोपगमस्तावच्छ्रयते ३"एवमेवेममात्मानमन्तकाले सर्वे प्राणा अभिसमायन्ति" इति तथा जीवेन सह प्राणस्योत्क्रान्तिः श्रूयते ४“तमुत्क्रामन्तं प्राणोऽनूकामति" इति प्रतिष्ठा च जीवेन सह श्रूयते ५ “कस्मिन्नुत्क्रान्त उत्क्रान्तो भविध्यामि कस्मिन्वा प्रतिष्ठिते प्रतिष्ठास्यामि" इति । एवं जीवेन संयुज्य तेन
१. छा. ६-८-६ ॥–२. छा. ६-६-५ ।।--३. स. ६.३.३८॥-४... ६-४. २ ॥--५. प्रमो. ६-३ ॥
For Private And Personal Use Only