________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३
पा.१.]
भोजापत्यधिकरणम्. सशरीरस्य" इत्यपि कारब्धदेहविषयम् , १“स एकथा भवति त्रिधा भवति"२ “स यदि पितृलोककामो भवति" ३“स तत्र पर्येति जक्षत्क्रीडब्रममाणः" इति कर्मबन्धविनिर्मुक्तस्याविर्भूतस्वरूपस्य सशरीरस्यैवापुरषार्थगन्धाभावात्। अपहतपाप्मनस्तु परमात्मनस्स्थूलसूक्ष्मरूपकृत्स्नजगच्छरीरत्वेऽपि कर्मसम्बन्धगन्धो नास्तीति नतरामपुरुषार्थगन्धप्रसङ्गः। लोकवत्-यथा लोके राजशासनानुवर्तिनां तदतिवर्तिनां च राजानुप्रइनिग्रहकृतसुखदुःखयोगेऽपि न ४शरीरित्वमात्रेण शासके राज्यपि शासनानुवृत्त्यतिवृत्तिनिमित्तसुखदुःखयोर्भोक्तृत्वप्रसङ्गः । यथाह द्रमिडभाष्यकारः ५“यथा लोके राजा प्रचुरदन्दशूके घोरेऽनर्थसङ्कटेऽपि प्रदेसे वर्तमानो व्यजनाद्यवधूतदेहो दोषैर्न स्पृश्यते, अभिप्रेतांश्च लोकान् ६परिपालयति, भोगांथ गन्धादीनविश्वजनोपभोग्यान्धारयति, तथाऽसौ लोकेश्वरो भ्रमत्स्वसामर्थ्यचामरो दोषैर्न स्पृश्यते, रक्षति च लोकान्नह्मलोकादीन् , भोगांश्चाविश्वजनोपभोग्यान्धारयति" इति।मृत्सुवर्णादिवद्रमस्वरूपपरिणामस्तु नैवाभ्युपगम्यते, अविकारत्वनिर्दोषत्वादिश्रुतेः ॥
यत्तु परैब्रह्मकारणवादे भोक्तृभोग्यविभागाभावमाशङ्कय समुद्रफेनतरङ्गदृष्टान्तेन विभागप्रतिपादनपरं सूत्रं व्याख्यातम् ; तदयुक्तम् , अन्तर्भावितशक्त्यविद्योपाधिकाब्रह्मणस्मृष्टिमभ्युपगच्छतामेवमाक्षेपपरि - हारयोरसङ्गतत्वात् कारणान्तर्गतशक्त्यविद्योपाध्युपहितस्य भोक्तृत्वादुपा। धेश्च भोग्यत्वात् । विलक्षणयोस्तयोः परस्परभावापत्तिर्हि न सम्भवति - खरूपपरिणामस्तु तैरपि नाभ्युपेयते, ७"न कर्माविभागादितिचेन्नानादित्वात्" इति क्षेत्रज्ञानां तद्गतकर्मणां चानादित्वप्रतिपादनात् । स्वरूपपरिणामाभ्युपगमेऽपि भोक्तृभोग्याविभागाशङ्का कस्यचिदपि न जायते १. छा. ७-२६-२॥
६. परिपिपालयिषति, परिपालयिष्यतीति २. छा. ८-२-१॥ ३. छा. ८-१२-३॥ च. पा॥ ४. सशरीरत्व. पा॥ ५. द्रमिडभाष्यम् ॥ ७. शारी. २-१-३५॥
For Private And Personal Use Only