________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(श्रीशारीरकमीमांसाभाष्ये भोक्त्रापत्त्यधिकरणम्॥५॥)...
भोक्त्रापत्तेरविभागश्चेत्स्याल्लोकवत्।२।१॥१४॥
पुनरपि साङ्ख्यः प्रत्यवतिष्ठते-यदुक्तं, स्थूलसूक्ष्मचिदचिद्वस्तुशरीरस्य परस्य ब्रह्मणः कार्यकारणरूपत्वाज्जीवब्रह्मणोस्खभावविभाग उपपद्यते-इतिः स तु विभागो न सम्भवति-ब्रह्मणस्सशरीरत्वे तस्य भोक्तृत्वापत्तेः, सशरीरत्वे जीवस्येवेश्वरस्यापि सशरीरत्वप्रयुक्तसुखदु:खयोर्भोक्तृत्वस्यावर्जनीयत्वात् । ननु च १“सम्भोगप्राप्तिरितिचेन्न वैशेग्यात्" इत्यत्रेश्वरस्य भोगप्रसङ्गपरिहार उक्तः, नैवम् तत्र ह्युपास्यतया हृदयायतने सनिहितस्य शरीरान्तर्वर्तित्वमात्रेण भोगप्रसङ्गो न विद्यत इत्युक्तम् , इह तु जीववब्रह्मणोऽपि सशरीरत्वे तद्वदेव मुखदुःखयोर्भोक्तृत्वप्रसङ्गो दुर्वार इत्युच्यते ; दृश्यते हि सशरीराणां जीवानां शरीरगतबालत्वस्थविरत्वादिविकारासम्भवेऽपि शरीरधातुसाम्यवैषम्यनिमितसुखदुःखयोगः । श्रुतिश्च २"न ह वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्ति अशरीरं वा व सन्तं न प्रियाप्रिये स्पृशतः" इति । अतस्सत्ररीरब्रह्मकारणवादे जीवेश्वरस्वभावविभागासम्भवात्केवलब्रह्मकारणवादे मृत्सुवर्णादिवज्जगद्गतापुरुषार्थादिसर्वविशेषाश्रयत्वप्रसङ्गाच्च प्रधानकारणवाद एव ज्यायानिति चेत्
-(सिद्धान्तः).... अत्रोत्तरं-स्याल्लोकवत्-इति । स्यादेव विभागो जीवेश्वरखभावयोः; नहि जीवस्य शरीरधातुसाम्यवैषम्यनिमित्तं सुखदुःखयोभोक्तृत्वं सशरीरत्वकृतम् , अपि तु पुण्यपापरूपकर्मकृतम्। २ "न ह वै
१ शारी. १-२-८॥
२. छा. ८-१२-१॥
For Private And Personal Use Only