________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४
वेदान्तदीपे
[अ. २. मृत्सुवर्णादिपरिणामरूपघटशरावकटकमकुटादिविभागवद्भोक्तृभोग्यवि - भागोपपत्तेः । स्वरूपपरिणामे च ब्रह्मण एव भोक्तभोग्यत्वापत्तिरिति पुनरप्यसामञ्जस्यमेव ॥ १४ ॥
इति श्रीशारीरकमीमांसाभाष्ये भोक्त्रापत्यधिकरणम् ॥ ५ ॥
शतमासा
वेदान्तसारे-भोक्त्रापत्तेरविभागश्चेत्स्याल्लोकवत् ॥ यदि चिदचिव. स्तुशरीरकत्वेन ब्रह्मणोऽपि सशरीरत्वमिप्यते ; तर्हि जीववत्सशरीरत्वेन ब्रह्मणोऽपि शरीरसम्बन्धप्रयुक्तसुखदुःखभोक्तृत्वापत्तेः जीवादविभागप्रसक्तिरिति चेत्न, स्यादेव जीवाद्विभागः, निरवद्यत्वकल्याणगुणाकरत्वेन ब्रह्मणः । न हि सशरीरत्वप्रयुक्तमनिष्टभोक्तृत्वम् ; अपित्वन्यवश्यत्वकृतम्। यथा लोके राअस्सशरीरत्वेऽपि अनन्यवश्यस्य स्वाहातिवृत्तिकृतानिष्टभोक्तृत्वन्नेतरसमानम्॥
इति वेदान्तसारे भोक्त्रापत्त्यधिकरणम् ॥ ५ ॥
वेदान्तदीपे-भोक्तापत्तेरविभागश्चेत्स्याल्लोकवत् ॥ सर्वात्मभूतस्य परस्य ब्रह्मणः स्वशरीरभूताज्जीवानिरतिशयानन्दस्वभावतया यो विभाग उक्तः, स कि विभागस्सम्भवति ? उत नेति संशयः । न सम्भवतीति पूर्वः प. क्षः, सर्वचिदचिद्वस्तुशरीरतया शरीरित्वाद्ब्रह्मणः, सशरीरस्य च सुखदुःखयोः भोक्तृत्वापत्तेः। तदापत्तिश्च १"न ह वै सशरीरस्य सतः प्रियाप्रिययोरप. हतिरस्ति अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः" इति श्रुतेः।राद्धान्तस्तुस्यादेव विभागो जीवात्परस्याकर्मवश्यतया । न सशरीरत्वप्रयुक्तस्सुखदुःखयोगः; अपि तु शास्त्रवश्यतया तदतिवृत्तिकृतः; २“स एकधा भवति त्रिधा भवति" इत्यादिनाऽवगतशरीरस्य मुक्तस्य सशरीरस्याप्यशास्त्रवश्यतया निरस्तनिखिलदुःखत्वदर्शनात् । यथा लोके ३राजशासनवश्यानां तच्छासनातिवृ. त्तिनिमित्तदुःखान्वयेऽपि ४राज्ञः प्रकारान्तरेण साधयेऽपि स्वशासनावश्यतया न तदतिवृत्तिकृतदुःखान्वयः । विभाग:-वैलक्षण्यम् । सूत्रमपि व्याख्यातम् ॥ १४॥
इति वेदान्तदीपे भोक्त्रापत्त्यधिकरणम् ॥ ५ ॥
१. छा. ८-१२-१॥ २. छा. ७.२६-२॥
३. राजशासनवश्यानां शरीरिणां. पा॥ ४. राशः सशरीरस्यापि, पा ॥
For Private And Personal Use Only