SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. १. तदधिगमाधिकरणम् . ४१३ पासनमेकस्मिन्नहनि कार्यम् , उत प्रत्यहमाप्रयाणादनुवर्तिनीयमिति संशयः । एकस्मिनेवाहनि शास्त्रार्थस्य कृतत्वात्तावतैव परिसमापनीयम् । १"यावदायुषम्" इति तु वचनं विधिशब्दस्याभावाद्विद्यायाः फलेनोपसंहारपरमिति पूर्वः पक्षः । राधान्तस्तु-आ प्रयाणात् अनुवर्तनीयम् ; कुतः तत्रापि हि दृष्टं १"स खल्वेवं वर्तयन्यावदायुषं ब्रह्मलोकमभिसम्पद्यते" इति । अप्राप्तत्वेनानुवादत्वासम्भवाद्विधिरेवायमिति ॥ १२॥ इति वेदान्तदीपे आप्रयाणाधिकरणम् ॥ ६ ॥ .....(श्रीशारीरकमीमांसाभाष्ये तदधिगमाधिकरणम् ॥७॥).. तदधिगम उत्तरपूर्वाघयोरश्लेषविनाशौ तहयप दशात् ।४।१।१३॥ __ एवं विद्यास्वरूपं विशोध्य विद्याफलं चिन्तयितुमारभते ब्रह्मविधाप्राप्तौ पुरुषस्योत्तरपूर्वाधयोरश्लेषविनाशौ थूयेते २ "तद्यथा पुष्करपलाश आपो न श्लिष्यन्ते एवमेवंविदि पापं कर्म न श्लिष्यते" ३"तस्यैवाऽत्मा पदवित्तं विदित्वा न कर्मणा लिप्यते पापकेन" इत्युत्तराधाश्लेषः, ४"तद्यथेषीकतूलमग्नौ प्रोतं प्रदूयेतेवं हास्य सर्वे पाप्मानः प्रयन्ते" ५"क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे" इति पूर्वाधविनाशः । एतावश्लेषविनाशौ विद्याफलभूतावुपपद्येते, नेति संशयः । किं युक्तम् १ नोपपद्यते इति । कुतः १ ६"नामुक्तं क्षीयते कर्म कल्पकोटिशतैरपि" इत्यादिशास्त्रविरोधात् । अश्लेषविनाशव्यपदेशस्तु मोक्षसाधनभूतविद्याविधायिवाक्यशेषगतः कथञ्चिद्विद्यास्तुतिप्रतिपादनेनाप्युपपद्यते । न च विद्या पूर्वोत्तराघयोः प्रायश्चित्ततया विधीयते ; येन प्रायश्चि १. छा. ८-१५.१ ॥-२. छा. ४-१४-३ ॥-३. ॥–४. छा. ५-२४-३ ॥ –५. मु. २-२-८ ।।-६, ब्रह्मवैवर्ते. प्रकृतिखण्डे. २६-अ, ७०-श्लो ॥ For Private And Personal Use Only
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy