________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
,
૪
श्रीशारीरकमीमांसाभाष्ये
[अ. ४.
तेनाघविनाश उच्यते । विद्या हि १" ब्रह्मविदामोति परम् " २" ब्रह्म वेद ब्रह्मैव भवति" इति ब्रह्मप्राप्त्युपायतया विधीयते । अतो विद्यार्थवादोऽयमघविनाशाश्लेषव्यपदेश इति ॥
• सिद्धान्तः )
(
एवं प्राप्तेऽभिधीयते तदधिगमे - इति । विद्याप्राप्तौ पुरुषस्य वियामाहात्म्यादुत्तरपूर्वाघयोर श्लेषविनाशावुपपद्येते; कुतः १ एवंविधं हि विद्यामाहात्म्यमवगम्यते " एवंविदि पापं कर्म न लिप्यते " ४" एवं हास्य सर्वे पाप्मानः प्रदूयन्ते" इत्यादिव्यपदेशात् । न च ५" नाभुक्तं क्षीयते कर्म" इत्यनेन शास्त्रेणास्य विरोधः, भिन्नविषयत्वात् । तद्धिकर्मणां फलजननसामर्थ्यद्रढिमविषयम्; एतचूत्पन्नाया विद्यायाः प्राक्कतानां पाप्मनां फलजननशक्तिविनाशसामर्थ्यमुत्पत्स्यमानानां च फलजननशक्त्युत्पत्तिप्रतिबन्धकरणसामर्थ्यं च प्रतिपादयतीति द्वयोर्विषयो भिद्यते । यथा अग्निजलयोरौष्ण्यतन्निवारणसामर्थ्यविषययोर्द्वयोः प्रमायोरपि विषयभेदात्प्रामाण्यम्; एवमत्रापीति न कश्चिद्विरोधः । अघस्याश्लेषकरणं वैदिककर्मायोग्यतावासनाप्रत्यवायहेतुशक्त्युत्पत्तिप्रतिबन्धकरणम् । अघानि हि कृतानि पुरुषस्य वैदिककर्मायोग्यतां, सजातीयकर्मान्तरारम्भरुचिं प्रत्यवायं च कुर्वन्ति । अघस्य विनाशकरणम्-उत्पन्नायास्तच्छक्तेर्विनाशकरणम् । शक्तिरपि परमपुरुषाप्रीतिरेव । तदेवं विद्या वेदितुर्वेद्यात्यर्थप्रियत्वेन स्वयमपि निरतिशयमिया सती वेद्यभूतपरमपुरुषाराधनस्वरूपा पूर्वकृताघसञ्चयजनितपरमपुरुषाप्रीतिंविनाशयतिः सैव विद्या स्वोत्पत्युत्तरकालभाव्यघनिमित्तपरमपुरुषाप्रीत्युत्पत्तिं च प्रतिबध्नाति । तदिदमश्लेषवचनं प्रामादिकविषयं मन्तव्यम् ; ६"नाविरतो दुश्चरितात्" इत्यादिभिश्शास्त्रैराप्रयाणादहरहरुत्पद्यमानाया
Acharya Shri Kailassagarsuri Gyanmandir
१. तै. आन. १-१ ॥ -२. मु. ३-२-९॥५-२४-३ ॥ - ५. ब्रह्मवैवर्ते. प्रकृतिखण्डे २६-७० ॥—६. कठ. २-२४॥
३. छा. ४-१४-३ ॥ ४ छा.
For Private And Personal Use Only