________________
Shri Mahavir Jain Aradhana Kendra
४१२
www.kobatirth.org
वेदान्तदीपे
Acharya Shri Kailassagarsuri Gyanmandir
[अ. ४.
गमात्मविशुद्धये ” इति ॥ १० ॥
यत्रैकाग्रता तत्त्राविशेषात् ॥ यस्मिन्देशे यस्मिंश्च काले मनस एकाप्रता; तत्र देशे काले चोपासनं कार्यम्; १" शर्करादिरहिते मनोनुकूले शुचौ देशे" इत्येतदतिरिक्तविशेषाग्रहणात् । यथा देशकालयोरेकाग्रतायामविशेषः, न तथा स्थितिगत्यादौ; आसीनस्य तु विशेषोऽस्तीत्यभिप्रायः ॥ ११ ॥ इति वेदान्तदीपे आसीनाधिकरणम् ॥ ५ ॥
(श्रीशारीरकमीमांसाभाष्ये आप्रयाणाधिकरणम् ।। ६ ।।) ००
आप्रयाणात्तत्रापि हि दृष्टम् । ४ । १ । १२ ॥ तदिदमपवर्गसाधनमुक्तलक्षणमुपासनमेकाह एव संपाद्यम्, उताप्रयाणात्प्रत्यहमनुवर्तनीयमिति विशये - एकस्मिन्नेवाहनि शास्त्रार्थस्य कृतत्वात्तावतैव परिसमापनीयम्
(सिद्धान्तः) -
इति प्राप्त उच्यते - आप्रयाणात् — इति । आमरणादनुवर्तनीयम् ; कुतः ? तत्रापि हि दृष्टम् उपासनोद्योगप्रभृत्याप्रयाणान्मध्ये यः कालः, तत्र सर्वत्रापि दृष्टमुपासनं २" स खल्वेवं वर्तयन्यावदायुषं ब्रह्मलोकमभिसम्पद्यते " इति ॥ १२ ॥
इति श्री शारीरकमीमांसाभाष्ये आप्रयाणाधिकरणम् ॥ ६ ॥
वेदान्तसारे – आप्रयाणात्तत्रापि हि दृष्टम् ।। आप्रयाणादहरहरुपासनं कार्यम्, २" स खल्वेवं वर्तयन्यावदायुषम्" इति दर्शनात् ॥ १२ ॥ इति वेदान्तसारे आप्रयाणाधिकरणम् ॥ ६ ॥
For Private And Personal Use Only
वेदान्तदीपे - आप्रयाणात्तत्रापि हि दृष्टम् ॥ तदिदमपवर्गसाधनमु
१ ॥ २. छा. ८-१५-१ ॥