________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(श्रीशारीरकमीमांसाभाष्ये प्रतीकाधिकरणम् ॥३॥)....
न प्रतीके न हि सः।४।१।४॥
१"मनो ब्रह्मेत्युपासीत" २“स यो नाम ब्रह्मेत्युपास्ते" इत्यादिप्रतीकोपासनेष्वप्यात्मत्वानुसन्धान कार्यम्, उत न-इति चिन्तायां १"मनो ब्रह्मेत्युपासीत" इति ब्रह्मोपासनत्वसाम्याब्रह्मणोपासितुरात्मत्वादात्मेत्येवोपासीतेति ॥
---(सिद्धान्तः)--- एवं प्राप्तेऽभिधीयते-न प्रतीके-इति । प्रतीके नात्मत्वानुसन्धान कार्यम् । न हि सः नद्यपासितुरात्मा प्रतीकः । प्रतीकोपासनेषु प्रतीक एवोपास्यः ; न ब्रह्म । ब्रह्म तु तत्र दृष्टिविशेषणमात्रम् । प्रतीकोपासनं हि नाम अब्रह्मणि ब्रह्मदृष्टयाऽनुसन्धानम् । तत्रोपास्यस्य प्रतीकस्योपासितुरात्मत्वाभावान तथाऽनुसन्धेयम् ॥ ४ ॥
नन्वत्रापि ब्रह्मेवोपास्यम् ; ब्रह्मण उपास्यत्वसम्भवे मनआदीनामचेतनानामल्पशक्तीनां चोपास्यत्वाश्रयणस्यान्याय्यत्वात् । अतो मनआदिदृष्टया ब्रह्मैवोपास्यमिति ; अत आह
ब्रह्मदृष्टिरुत्कर्षात् । ४।१।५॥ ___ मनआदिषु ब्रह्मदृष्टिरेव युक्ता; न ब्रह्मणि मनआदिदृष्टिः, - ह्मणो मनआदिभ्य उत्कर्षात् : तेषां च विपर्ययात् । उत्कृष्टे हि राजनि भृत्यदृष्टिः प्रत्यवायकरी; भृत्ये तु राजदृष्टिरभ्युदयाय ॥५॥
इति श्रीशारीरकमीमांसाभाष्ये प्रतीकाधिकरणम् ॥ ३ ॥
१.छा.३-१८-१॥-२.छा, ७-१-५॥
For Private And Personal Use Only