________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[अ. ४.
श्रीशारीरकमीमांसाभाष्ये वेदान्तसारे-न प्रतीके न हि सः ॥ १"मनो ब्रह्म" इत्यादिप्रतीके तु नात्मेति ग्रहणम् ; न हि तत्र सा-परमात्मोपास्यः;परमात्मदृष्टया हि मनःप्रभृतीति ॥४॥
__ ब्रह्मदृष्टिरुत्कर्षात् ॥ ब्रह्मण उत्कृष्टत्वात्तदृष्टया मनआधुपासनं बभ्युदयाय भवतीति ॥ ५॥
इति वेदान्तसारे प्रतीकाधिकरणम् ॥ ३ ॥
वेदान्तदीपेन प्रतीके न हि सः ॥ ब्रह्मदृष्टिरुत्कर्षात् ॥ १"मनो ब्रह्मेत्युपासीत" इत्यादिषु प्रतीकोपासनेष्वप्यात्मत्वेनानुसन्धानं कर्तव्यम् , उत नेति संशयः । १"मनो ब्रह्मेत्युपासीत" इति ब्रह्मोपासनत्वाविशेषादात्मेस्येवानुसन्धानमिति पूर्वः पक्षः। राद्धान्तस्तु-न प्रतीके आत्मत्वानुसन्धानं कार्यम् । कुतः? न हि मनादिरूपासितुरात्मा, न च तत्र ब्रह्मोपास्यम् । ब्रह्म दृष्ट्या मनआदिरुपास्यः; अपकृष्टे उत्कृष्टदृष्टिरभ्युदयाय भवति; यथा भृत्यादी राजदृष्टिः । सूत्रद्वयं च व्याख्यातम् ॥४॥५॥
इति वेदान्तदीपे प्रतीकाधिकरणम् ॥ ३ ॥
....(श्रीशारीरकमीमांसाभाष्ये आदित्यादिमत्यधिकरणम् ॥)....
आदित्यादिमतयश्चाङ्ग उपपत्तेः । ४।१।६॥
“य एवासौ तपति तमुद्गीथमुपासीत" इत्यादिषु कर्मानाश्रयेषपासनेषु संशयः-किमुद्गीथादौ कर्माङ्गे आदित्यादिदृष्टिः कर्तव्या, उतादित्यादिषद्गीथादिदृष्टिः" इति।उत्कृष्टदृष्टिनिकृष्टे कर्तव्येति न्यायात्, उद्गीथादीनां च फलसाधनभूतकाङ्गत्वेनाफलेभ्य आदित्यादिभ्यः उस्कृष्टत्वादादित्यादिषद्गीथादिदृष्टिः
..(सिद्धान्तः)--- इति प्राप्तेऽभिधीयते-आदित्यादिमतयश्चाङ्गे—इति । चशब्दोऽव१. छा. ३-१८-१ ॥-२, छा, १-३-१ ॥
For Private And Personal Use Only