________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[म...
४०६
वेदान्तदीपे यतः पूर्वे उपासितारः १"त्वं वा अहमस्मि भगवो देवते अहं वै त्वमसि भगवो देवते" इत्यात्मेत्येवोपगच्छन्ति । उपासितुरन्तरमपि ब्रह्म तानुपासित खात्मभूतं ग्राहयन्ति शास्त्राणिर “य आत्मनि तिष्ठनात्मनोऽन्तरो यमात्मा न वेद वस्याऽत्मा शरीरं य आत्मानमन्तरो यमयति स त आत्मा"इत्यादीनि। यथा 'म नुष्योऽहम्'इति मनुष्यशरीरस्य स्वात्मप्राकारतकस्वभावतया प्रकारिणि स्वात्मनि अहंशब्दस्य तद्बुद्धश्च पर्यवसानम् ; तथा वात्मनोऽपि परमात्मशरीरतया तत्प्रकारस्वभावत्वेन अहंशब्दतद्वयोः परमात्मनि पर्यवसानमिति ३" अहं ब्रह्म" इत्येवोपास्यमिति ॥३॥
इति वेदान्तसारे आत्मत्वोपासनाधिकरणम् ॥ २ ॥ वेदान्तदीपे-आत्मेति तूपगच्छन्ति ग्राहयन्ति च ॥ किमुपास्यं ब्रझोपासितुरन्यत्वेनानुसन्धेयम् , उतात्मत्वेनेति संशयः । ४ "अधिकं तु भेदनिर्देशात् '५'अधिकोपदेशात्' इत्यादिष्पासितुरुपास्यस्यार्थान्तरत्वेनैवोपपादनात् यथावस्थितस्यैवोपास्यत्वाश्चान्यत्वेनोपास्यमिति पूर्वः पक्षः । राधान्त. स्तु-१" त्वं वा अहमस्मि भगवो देवते अहं वै त्वमसि भगवो देवते" इति पूर्व उपासितारः उपास्यमात्मत्वेनोपगच्छन्ति । अत आत्मस्येवोपास्यम् । तानुपासि प्रत्यर्थान्तरभूतस्यापि ब्रह्मणः उपासितुरात्मत्वं ग्राहयन्ति शास्त्राणि २“य आत्मनि तिष्ठनात्मनोऽन्तरो यमात्मा न वेद वस्याऽत्मा शरीरं य आत्मानमन्तरो यमयति स त आत्माऽन्तर्याम्यमृतः " इत्यारभ्योपासिता परमात्मन. श्शरीरम् , परमात्मा चोपासितुरात्मेति प्रतिपादनेन ; तथा ६"सर्व खल्विदं ब्रह्म तजलान्" इति ७"सन्मूलास्सोम्येमास्सर्वाःप्रजास्सदायतनास्सत्प्रतिष्ठाः...ऐतदात्म्यमिदं सर्वम्" इति च तदायत्तस्वरूपस्थितिप्रवृत्तिताप्रतिपादनेन च । एवमुपासितुस्वात्मनोऽप्यात्मत्वाब्रह्मणः यथावस्थितस्वात्मशरीरकबह्मानुसन्धानेऽहमित्येवानुसन्धेयम्।यथा मनुष्योऽहमस्मि'इति स्वशरीरस्य स्व. प्रकारतकस्वभावतया प्रकारिणि स्वात्मनि पर्यवसानम् , तथा स्वात्मनोऽहंप्र. त्ययोऽहंशन्दश्च न केवलस्वात्मविषयौ, परमात्मशरीरतया तद्विशेषणत्वेनैव खात्मनोऽवस्थानात् । सूत्रमपि व्याख्यातम् ॥ ३ ॥
इति वेदान्तदीपे आत्मत्वोपासनाधिकरणम् ॥ २॥ १॥--२. ५. ५-७-२२. मा. पा.-३. बु. ३-४-१०॥-४. शारी. २.१.२२॥ -५. शारी. ३-४-८ ॥--६, छा. ३-१४-१ ।।---७. छा. ६.८.४ ॥
For Private And Personal Use Only