________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. १.]
आत्मत्वोपासनाधिकरणम्
यति स त आत्माऽन्तर्याम्यमृतः” इति; तथा १ " सन्मूलास्सोम्येमास्सर्वाः प्रजास्सदायतनास्सत्प्रतिष्ठाः ऐतदात्म्यमिदं सर्वम् " २" सर्वे खल्विदं ब्रह्म तज्जलानिति" इति च सर्वस्य चिदचिद्वस्तुनस्तज्जत्वात्तल्लत्वात्तदनत्वात्तन्नियाम्यत्वात्तच्छरीरत्वाच्च सर्वस्यायमात्मा; अतस्स त आत्मा;अतो यथा प्रत्यगात्मनस्स्वशरीरं प्रत्यात्मत्वात् 'देवोऽहं मनुष्योऽहम्' इत्यनुसन्धानम्; तथा प्रत्यगात्मनोऽप्यात्मत्वात्परमात्मनस्तस्याप्यहमित्येवानुसन्धानं युक्तमिति । एवं शास्त्रैरुपपादितं सर्वबुद्धीनां ब्रह्मैकनिष्ठत्वेन सर्वशब्दानां ब्रह्मैकनिष्ठत्वमभ्युपगच्छन्तः ३" त्वं वा अहमस्मि भगवो देवते अहं वै त्वमसि भगवो देवते" इति व्यतिकरेणोक्तवन्तः । एवं च ४" अथ योsन्यां देवतामुपास्ते अन्योऽसावन्योऽहमस्मीति न स वेद" ५" अकृत्स्नो ह्येष आत्मेत्येवोपासीत" ६" सर्वे तं परादाद्योऽन्यत्राऽत्मनस्सर्वे वेद ” इत्यात्मत्वाननुसन्धाननिषेधः, “पृथगात्मानं प्रेरितारं च मत्वा" इति पृथक्त्वानुसन्धानविधानं चाविरुद्धम् ; अहमिति स्वात्मत याऽनुसन्धानादन्यत्वानुसन्धाननिषेधो रक्षितः ; खशरीरात्स्वात्मनोऽधिकत्वानुसन्धानवत्स्वात्मनोऽपि परमात्मनोऽधिकत्वानुसन्धानात्पृथक्त्वानुसन्धानविधानं च रक्षितम् । अधिकस्य ब्रह्मणः प्रत्यगात्मन आत्मत्वात्तस्य च ब्रह्मशरीरत्वान्निषेधवाक्ये ५ “अकृत्स्नो ह्येषः" इत्युक्तम् । अत उपासितुरात्मत्वेन ब्रह्मोपास्यमिति स्थितम् ॥ ३ ॥
७
इति श्रीशारीरकमीमांसाभाष्ये आत्मत्वोपासनाधिकरणम् ॥ २ ॥
४०५
वेदान्तसारे आत्मेति तूपगच्छन्ति ग्राहयन्ति च।। यद्यपि " अधिकन्तु भेदनिर्देशात् " ९" अधिकोपदेशात्" इत्यादिषु प्रत्यगात्मनोऽर्थान्तरत्वं ब्रह्मणः प्रतिपादितम् ; तथाप्युपासिता १०" अहं ब्रह्मास्मि " इत्येवोपासीत ;
For Private And Personal Use Only
१. छा. ६-८-४ ॥ - २. छा. ३-१४-१ ॥ - -३ ॥ - ४. बृ. ३-४-१० ॥ -- ५॥ –६. बृ. ६-५-७॥ - ७. वे. १६ ॥ ८. शारी. २-१-२२॥ - ९. शारी. ३-४-८ ॥ - १०. बृ. ३-४-१० ॥