________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४०४
श्रीशारीरकमीमांसाभाष्ये
म.४. सते' १"तद्रूपप्रत्यये चैका सन्ततिश्चान्यनिस्पृहा। तड्यानं प्रथमैक्षभिरङ्गनिष्पाद्यते तथा" इति ॥२॥
इति वेदान्तदीपे आवृत्त्यधिकरणम् ॥ १ ॥
-..श्रीशारीरकमीमांसाभाष्ये आत्मत्वोपासनाधिकरणम् ॥).. आत्मेति तूपगच्छन्ति ग्राहयन्ति च।४।१॥३॥
इदमिदानी चिन्त्यते-किमुपास्यं ब्रह्मोपासितुरन्यत्वेनोपास्यम् , उतोपासितुरात्मत्वेन-इति । किं युक्तम् ?; अन्यत्वेनेति । कुतः उपासितुः प्रत्यगात्मनोऽर्थान्तरत्वात् ब्रह्मणः । अर्थान्तरत्वं च २"अधिक तु भेदनिर्देशात्" ३"अधिकोपदेशात्" ४'नेतरोऽनुपपत्तेः" इत्यादिषपपादितम् । यथावस्थितं च ब्रह्मोपास्यम् ; अयथोपासने हि ब्रह्मप्राप्तिरप्ययथाभूता स्यात्-५"यथाक्रतुरस्मिन् लोके पुरुषो भवति तथेतः प्रेत्य भवति" इति न्यायात् । अतोऽन्यत्वेनोपास्यमिति ॥
...(सिद्धान्तः)...एवं प्राप्तेऽभिधीयते-आत्मेति तु-इति । तुशब्दोऽवधारणे; उपासितुरात्मेत्येवोपास्यम् , उपासिता प्रत्यगात्मा स्वशरीरस्य स्वयं यथा आत्मा; तथा खात्मनोऽपि परं ब्रह्मात्मेत्येवोपासीतेत्यर्थः । कुतः? एवं युपगच्छन्ति पूर्वे उपासितारः ६"त्वं वा अहमस्मि भगवो देवते अहं वै त्वमसि" इति । उपासितुरर्थान्तरभूतं ब्रह्मोपासितारोऽहमिति कथमभ्युपगच्छन्तीत्यत्राह-ग्राहयन्ति च-इति।इममर्थमविरुद्धमुपासितॄन् ग्राहयन्ति शास्त्राणि-तान् प्रत्युपपादयन्तीत्यर्थः। ७“य आत्मनि तिष्ठनास्मनोऽन्तरो यमात्मा न वेद यस्याऽत्मा शरीरं य आत्मानमन्तरो यम
१. विष्णु. ६-७-९१ ॥–२. शारी. २-१-२२ ॥-३. शारी . ३-४-८॥-४. शारी.१-१-१७ ॥-५. छा. ३-१४.१ ॥–६॥-७. ३-५-७-२२. माध्यन्दिनशाखा ॥
For Private And Personal Use Only