________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. १.]
भावृस्वधिकरणम्. वेदान्तसारे-आवृत्तिरसदुपदेशात् ॥ १"ब्रह्मविदामोति परम्" इ. त्यादिषु मोक्षसाधनं वेदनमसकृदावृत्तम् , “विद्यात्" "उपासीत" इति वि. घुपास्योरुपक्रमोपसंहारयोयतिकरेणोपदेशात् ॥ १॥
लिगाच । लिङ्गं - स्मृतिः ; २"मां ध्यायन्त उपासते । तेषामहं स. मुखर्ता" ३ 'तपप्रत्यये चैका सन्ततिश्चान्यनिस्स्पृहा। तच्यानम्"इत्यादिस्मतेश्च ॥२॥
इति वेदान्तसारे आवृत्त्यधिकरणम् ॥ १ ॥
वेदान्तदीपे—आवृत्तिरसकृदुपदेशात् ॥ १'ब्रह्मविदाप्नोति परम्" ४'तमेवं विद्वानमृत इह भवति" इत्यादिवेदान्तविहितं वेदनं किं सकृत्कृतमेव शास्त्रार्थः, उतासकृदावृत्तमिति संशयः । सकृत्कृतमेवेति पूर्वः पक्षः, ५"स यो ह वै तत्परमं ब्रह्म वेद ब्रह्मैव भवति"इस्यादौ वेदनस्यैव मुक्त्युपायत्वप्रति पादनात् , सकृत्कृतेऽपि वेदने शास्त्रार्थनिर्वृत्तेः, तस्यासकृदावृत्तौ प्रमाणाभावात् । राद्धान्तस्तु–६"यस्तद्वेद यत्स वेद स मयैतदुक्तः" इत्युपक्रम्य, ७'अ. नु म एतां भगवो देवतां शाधि यां देवतामुपास्से" इत्येकस्मिन्वाक्ये विद्युपास्योर्व्यतिकरण प्रयोगदर्शनात् , समानार्थेषु १"ब्रह्मविदाप्नोति परम्" "आत्मा वा अरे द्रष्टव्यश्श्रोतव्यो मन्तव्यो निदिध्यासितव्यः” इत्यादिषु ध्यानविधोव्यतिकरदर्शनाच, ध्यानोपासनादिशब्दवाच्यमसकृदावृत्तं स्मृतिसन्तानरूपवेदनमेव शास्त्रार्थ इति निश्चीयते।सूत्रार्थस्तु-*आवृत्तिरसकृत्-ब्रह्मप्राप्तिसाधनं वेदनमसकृदावृत्तमेव शास्त्रार्थः ; वेदनं ध्यानशब्दवाच्यमित्यर्थः । कुतः? उपदेशात्-९"ओमित्येवं ध्यायथात्मान" १० "निचाय्य तं मृत्युमुखात्प्रमुच्य. ते"११'आत्मानमेव लोकमुपासीत" "आत्मा वा अरे द्रष्टव्यः” इत्यादिना उपासनोपसंहारोपदेशात् । उपासनं चाविच्छिनस्मृतिसन्तानरूपमिति पूर्वमेवोक्तम् ॥१॥
लिङ्गाच्च ॥ लिङ्गं-स्मृतिः। स्मर्यते चायमर्थः२ "मां ध्यायन्त उपासते । तेषामहं समुद्धर्ता मृत्युसंसारसागरात्"११"ये त्वक्षरमनिर्देश्यमव्यक्तं पर्युपा
१. त.भा. १-१॥-२. गी. १२-६, ७॥३. विष्णु ६-७-९१॥-४. पुरुषसूक्तम्॥ ५. मु. ३ २.९ ॥-६. छा, ४.१-४॥-७. छा. ४-२-२ ।।-८. वृ. ४-४-५॥*वेदनशास्त्रार्थ आवृत्तिः असकृत्----असकृदावृत्तं वेदनं ध्यानशब्दवाच्यमित्यर्थ:. पा॥-९. मु. २-२-६ ॥-१.. कठ. ३-१५॥-११॥-१२. गी, १२-३ ॥
For Private And Personal Use Only