________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीशारीरकमीमांसाभावे इति प्राप्ते प्रचक्ष्महे-आरत्तिरसकृत-इति। असकदावृत्तमेव वेदनं शास्त्रार्थः कुतः? उपदेशात्-ध्यानोपासनपर्यायेण वेदनशन्देनोपदेशात् । तत्पर्यायत्वं च विद्युपास्तिध्यायतीनामेकस्मिन्विषये वेदनोपदेशपरवाक्येषु प्रयोगादवगम्यते । तथाहि १“मनो ब्रह्मेत्युपासीत" इत्युपासिनोपक्रान्तोऽर्थः २ "भाति च तपति च की. यशसा ब्रह्मवर्चसेन य एवं वेद" इति विदिनोपसंहियते; तथा ३“यस्तद्वेद यत्स वेद स मयैतदुक्तः" इत्युपक्रमे विदिनोक्तं रैकस्य ज्ञानम् ४"अनु म एतां भगवो देवतां शाधि यां देवतामुपास्से" इत्युपासिनोपसंहियते; तथा ५"ब्रह्मविदामोति परम्" इत्यादिवाक्यसमानार्थेषु वाक्येषु ६"आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः" " ततस्तु तं पश्यति निष्कलं ध्यायमानः" इत्यादिषु ध्यायतिना वेदनमभिधीयते ; ध्यानं च चिन्तनम् ; चिन्तनं च स्मृतिसन्ततिरूपम् । न स्मृतिमात्रम् ; उपा. स्तिरपि तदेकार्थः, एकाग्रचित्तवृत्तिनैरन्तर्ये प्रयोगदर्शनात् । तदुभयैकाध्योत् असकृदात्तसन्ततस्मृतिरिह "ब्रह्म वेद ब्रह्मैव भवति" ९"ज्ञात्वा देवं मुच्यते सर्वपाशैः" इत्यादिषु वेदनादिशब्दैरभिधीयते इति निश्चीयते ॥१॥
लिङ्काच्च।४।१।२॥ लिङ्ग - स्मृतिः। स्मृतेश्यायमर्थोऽवगम्यते । स्मर्यते हि मोक्षसाधनभूतं वेदनं स्मृतिसन्ततिरूपं १०"तद्रपप्रत्यये चैका सन्ततिश्चान्यनिस्स्पृहा। तड्यानं प्रथमैषभिरङ्गैनिष्पाद्यते तथा" इति । तस्मादसकदावृत्तमेव वेदनं शास्त्रार्थः ॥२॥
इति श्रीशारीरकमीमांसाभाष्ये आवृस्यधिकरणम् ॥ १ ॥ १. छा. ३-१८-१॥-२. छा, ३.१८-३,४,५,६ ॥-३. छा. ४-१-४ ॥४. छा. ४-२-२ ॥-५. ते. आन, १-१॥-६... ४.४-५॥- ७. मु. ३.१-८॥
-८..३.२.९॥-९,. १-८॥-१०. विष्णु. ६-७-९१ ।।
For Private And Personal Use Only