________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीमते रामानुजाय नमः. श्रीभगवद्रामानुजविरचिते श्रीशारीरकमीमांसाभाष्ये
( चतुर्थाध्याये - प्रथमः पादः - आवृत्यधिकरणम् ॥ १ ॥ )
आवृत्तिरसकृदुपदेशात् । ४ । १ । १ ॥
तृतीयेऽध्याये साधनैस्सह विद्या चिन्तिता । अथेदानीं विद्यास्वरूपविश्शोधनपूर्वकं विद्याफलं चिन्त्यते । तत्र १" ब्रह्मविदाप्नोति परम् " २" तमेव विदित्वाऽतिमृत्युमेति " ३ " ब्रह्म वेद ब्रह्मैव भवति " ४" यदा पश्यः पश्यते रुक्मवर्णम्" इत्यादिवेदान्तवाक्येषु ब्रह्मप्राप्तिसाधनतया विहितं वेदनं किं सकृत्कृतमेव शास्त्रार्थः, उतासकृदावृत्तमिति संशयः । किं युक्तम् सकृत्कृतमिति ; ३" ब्रह्म वेद ब्रह्मैव भवति" इति वेदनमात्रस्यैव विधानात्, असकृदावृत्तौ प्रमाणाभावात् । नचावघा तादिवद्वेदनस्य ब्रह्मापरोक्ष्यं प्रति दृष्टोपायत्वाद्यावत्कार्यमावृत्तिरिति शक्यं वक्तुम्, वेदनस्य दृष्टोपायत्वाभावात् । ज्योतिष्टोमादिकर्माणि, वेदान्तविहितं च वेदनं परमपुरुषाराधनरूपम्, आराधिताचं परमपुरुषाद्धर्मार्थकाममोक्षाख्यपुरुषार्थावाप्तिरिति हि ५" फलमत उपपत्तेः" इत्यव प्रतिपादितम् । अतो ज्योतिष्टोमादिवद्यथाशब्दं सकृत्कृतमेव शास्त्रार्थ:(सिद्धान्तः) --~--
१. ते. आन, १-१ ॥ २. वे. ३-८ ॥ - ३. मु. ३-२-९ ॥ - ४. मु. ३-१-३ ॥ -५. शारी. ३-२-३७ ॥
*5I
For Private And Personal Use Only