SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वेदान्तदीपे [अ. ३. वेदान्तसारे-एवं मुक्तिफलानियमस्तदवस्थावधृतेस्तदवस्थावधृतेः।। एवं मुक्तिफलोपासनस्यापि प्रतिबन्धभावाभावयोरित्यनियमः, प्रतिबन्धाभाव एवेति फलोदयावस्थावधृतेः ॥ ५१ ॥ इति वेदान्तसारे मुक्तिफलाधिकरणम् ।। १५ ।। इति श्रीभगवद्रामानुजविरचिते श्रीवेदान्तसारे तृतीयस्याध्यायस्य चतुर्थः पादः ॥ ४॥ समाप्तश्चाध्यायः॥३॥ वेदान्तदीपे-एवं मुक्तिफलानियमस्तदवस्थावधृतेस्तदवस्थावकृतेः।। किं मुक्तिफलान्युपासनानि स्वसाधनभूतातिशयितपुण्यकर्मानन्तरमुत्पद्यन्ते, उत पूर्ववदनियम इति संशयः । मुक्तिफलोपासनसाधनभूतकर्मणां सर्वकर्मभ्यो बलवत्तरत्वेन प्रतिबन्धाभावादनन्तरमेवोत्पद्यत इति पूर्वः पक्षः । तत्रापि ब्रह्मविदपचारस्य ततोऽपि बलवत्तरत्वेन प्रतिबन्धसम्भवादनियम एवेति रा. द्धान्तः। सूत्रार्थस्तु-मुक्तिफलानामप्येवमनियमः । कुतः तदवस्थावधृतेः-प्र. तिबन्धाभावे सति फलावधृतेः । द्विरुक्तिरध्यायपरिसमाप्तिं द्योतयति ॥५१॥ इति वेदान्तदीपे मुक्तिफलाधिकरणम् ॥ १५ ॥ : इति श्रीभगवद्रामानुजविरचिते श्रीवेदान्तदीपे तृतीयस्याध्यायस्य चतुर्थः पादः ॥४॥ समाप्तश्चाध्यायः॥३॥ For Private And Personal Use Only
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy