________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. ४.] मुक्तिफलाधिकरणम् .
३९९ न्यदा घेत्यनियम इति संशयः। साधननिवृत्तौ विलम्बहेत्वभावादनन्तरमेवेति पूर्वः पक्षः। राधान्तस्तु-अप्रस्तुते प्रबलकर्मान्तरप्रतिबन्धे सत्यनन्तरम्, प्र. स्तुते तदुत्तरकालमित्यनियमः । दृश्यते हि प्रबलकर्मान्तरेण फलप्रतिबन्धः १॥ यदेव विद्यया करोति.. तदेव वीर्यवत्तरम्' इति उद्गीथोपासनस्य क्रतोः कर्मान्तरेण फलाप्रतिबन्धः फलमिति , २"पृथग्भ्यप्रतिबन्धः फलम्" इत्यभ्युपगमात् । सूत्रमपि व्याख्यातम्। ऐहिकम्-अभ्युदयफलमित्यर्थः॥ ५० ॥
इति वेदान्तदीपे ऐहिकाधिकरणम् ॥ १४ ॥
an.r(श्रीशारीरकमीमांसाभाष्ये मुक्तिफलाधिकरणम्॥ १५॥)......
एवं मुक्तिफलानियमस्तदवस्थावधृतेस्तदवस्था
वधृतेः । ३।४।५१ ॥ मुक्तिफलस्याप्युपासनस्य खसाधनभूतैरतिशयितकर्मभिरुत्पत्तावेवमेव कालानियमः, तस्यापि पूर्ववत्सतिबन्धाभावप्रतिषन्धसमाप्तिरूपावस्थावगतेः-अवापि तस्य हेतोस्समानत्वादित्यर्थः ॥ ___सर्वेभ्यः कर्मभ्यो मुक्तिफलविद्यासाधनस्य कर्मणः प्रबलत्वात्मतिबन्धासम्भव इत्यधिकाशङ्का ।।
तत्रापि ब्रह्मविदपचाराणां पूर्वकृतानां प्रबलानां सम्भवात्मति३वन्धसम्भव इति परिहारः। द्विरुक्तिरध्यायपरिसमाप्तिं द्योतयति ॥
इति श्रीशारीरकमीमांसाभाष्ये मुक्तिफलाधिकरणम् ॥ १५ ॥ इति श्रीभगवद्रामानुजविरचिते शारीरकमीमांसाभाष्ये
तृतीयस्याध्यायस्य चतुर्थः पादः॥४॥
समाप्तश्चाध्यायः॥३॥
१. छा. १-१-१०॥-२. शारी, ३-३-४१ ॥
३. प्रतिबन्धरसम्भवतीति परिहार:. पा॥
For Private And Personal Use Only