________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीशारीरकमीमांसाभाष्ये ऐहिकाधिकरणम् ॥१४॥).. ऐहिकमप्रस्तुतप्रतिबन्धे तदर्शनात्।३।४॥५०॥
द्विविधा विद्या-अभ्युदयफला, मुक्तिफला च । तत्राभ्युदयफला खसाधनभूतैः पुण्यकर्मभिः पुण्यकर्मानन्तरमेव उत्पद्यते, उतानन्तरं कालान्तरे वेत्यनियम इति संशयः । पूर्वकृतैः पुण्यकर्मभिर्हि विद्वान् जायते ; यथोक्तं भगवता १"चतुर्विधा भजन्ते मां जनास्सुकृविनोऽर्जुन" इति । साधने निवृत्ते विलम्बहेत्वभादनन्तरमेव
.... (सिद्धान्तः) ---- इति प्राप्त उच्यते-ऐहिकमप्रस्तुतप्रतिबन्धे-इति।ऐहिकम्-अभ्युदयफलमुपासनम् , अप्रस्तुतपतिबन्धे-अप्रस्तुते-प्रबलकर्मान्तरप्रतिबन्धे सत्यनन्तरम् , प्रतिबन्धे सति तदुत्तरकालमित्यनियमः । कुतः १ तदर्शनाव-दृश्यते हि प्रबलकर्मान्तरेण कर्मफलप्रतिबन्धाभ्युपगमः श्रुतौ २"यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरम्" इत्युद्गीथविद्यायुक्तस्य कर्मणः फलामतिबन्धश्रवणात् ॥५०॥
इति श्रीशारीरकमीमांसाभाष्ये ऐहिकाधिकरणम् ॥ १४ ॥
वेदान्तसारे-ऐहिकमप्रस्तुतप्रतिबन्धे तदर्शनात् ॥ अभ्यदयफलमपासमं वसाधनभूतपुण्यकर्मानन्तरमुत्पद्यत इति नायं नियमः, प्रबलकर्मान्तरप्रतिबन्धाभावे तदनन्तरं, प्रतिबन्धे तु तस्मिन्समाप्ते “ तदेव वीर्यवत्तरम्" इति प्रतिबन्धाभावे फलदर्शनात् ॥ ५० ॥
इति वेदान्तसारे ऐहिकाधिकरणम् ॥ १४ ॥
वेदान्तदीपे-ऐहिकमप्रस्तुतप्रतिबन्धे तद्दर्शनात् ॥ मोक्षव्यतिरिक्ताभ्युदयफलमुपासनं किं स्वसाधनभूतपुण्यकर्मानन्तरमेवोत्पद्यते, उतानन्तरम
१. गी. ७-१६ ॥–२. छा. १-१-१० ॥
For Private And Personal Use Only