________________
Shri Mahavir Jain Aradhana Kendra
पा. ४.]
www.kobatirth.org
अनाविष्काराधिकरणम् •
Acharya Shri Kailassagarsuri Gyanmandir
--( सिद्धान्तः )
एवं प्राप्तेऽभिधीयते - अनाविष्कुर्वन्निति । बालस्य यत्स्वभावानाविष्काररूपं कर्म ; तदुपाददानो वर्तेत विद्वान् । कुतः १ अन्वयात्तस्यैवान्वयात् । १ " बाल्येन तिष्ठासेत्" इत्यस्मिन्विधौ तस्यैव ह्यन्वयसम्भवः ; इतरेषां विद्याविरोधित्वश्रवणात् २ “नाविरतो दुखरितान्नाशा - न्तो नासमाहितः । नाशान्तमानसो वापि प्रज्ञानेनैनमाप्नुयात्" "आहारशुद्धौ सच्चशुद्धिः" इत्यादिषु ॥ ४९ ॥
इति श्री शारीरकमीमांसाभाष्ये अनाविष्काराधिकरणम् ॥ १३ ॥
वेदान्तसारे – अनाविष्कुर्वन्नन्वयात् || १ " पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेत्” इति बाल्यमित्यविशेषेण श्रुतावपि बालकर्म स्वमाहात्म्यानाविष्काररूपं विद्यान्वययोग्यतया विधीयते ॥ ४९ ॥
इति वेदान्तसारे अनाविष्काराधिकरणम् ॥ १३ ॥
३९७
वेदान्तदीपे - अनाविष्कुर्वन्नन्वयात् ॥ १" तस्माद्राह्मणः पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेत् बाल्यं च पाण्डित्यं च निर्विद्याथ मुनिः" इत्यत्र किंबालस्य कर्म कामचारादिकं सर्वे विदुषोपादेयम् उत विद्यामाहात्म्यानाविकार इति संशयः । १" बाल्येन तिष्ठासेत्" इत्यविशेषविधानात्कामचारादिकं सर्वमप्युपादेयमिति पूर्वः पक्षः ; विदुषो विशेषविधानात् विद्यामाहाम्याच, निषेधश्रुतयो बाधिता भवेयुः इति । राद्धान्तस्तु - पाण्डित्यप्रयुक्तस्वमाहात्म्यानाविष्कार एव विद्यान्वययोग्यतयोपादेयः, इतरस्य कामचारादेः २'नाविरतो दुश्चरितात्" इत्यादिशास्त्रैर्विद्योत्पत्तिविरोधित्वावगमात् । अतो यथा बालः स्वाभिजनाद्यनाविष्कुर्वन्वर्तते तथा विद्वान्वर्तेतेत्येतदेव युक्तम् । सूत्रमपि व्याख्यातम् ॥ ४९ ॥
इति वेदान्तदीपे अनाविष्काराधिकरणम् ॥ १३ ॥
बु. ५-५-२ ॥ -२. कठ. २.२४ ॥३. छा. ७.२६-२ ॥
For Private And Personal Use Only
,