________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३९६ श्रीशारीरकमीमांसामाग्ये
[म. ३. नानूचत इति पूर्वः पक्षः। राधान्तस्तु-मुनिशब्दस्य प्रकृष्टमननशीले प्रसिखेः, प्रकृष्टमननमुपास्यविषयाभ्यासरूपं विद्यानिष्पत्तये विधीयत इति । सूत्राथस्तु-तद्वतः-विद्यावतः, सहकार्यन्तरं मौनं विधिः विधीयत इति विधिरिति मौनं विधिरित्युक्तम् । विध्यादिवत्-अत्रापि विधीयत इति विधिः य. शदानप्रभृत्याश्रमधर्मः, आदिशब्दाच्छ्रवणमनने गृह्यते । आश्रमधर्मवच्छ्रवणमननवञ्च पाण्डित्यबाल्ययोस्तृतीयमिदं सहकार्यन्तरं मौनमपूर्व विधीयते; कुत इत्यत आह पक्षेणेति । मुनिशब्दस्य प्रकृष्टमननयुक्ते पक्षेण-प्रसिद्धेरिस्यर्थः॥४६॥
कृत्स्नभावात गृहिणोपसंहारः ॥ सर्वाश्रमिणां विद्यावत्त्वेऽपि च्छान्दोग्ये १"स खल्वेवं वर्तयन्यावदायुषं ब्रह्मलोकमभिसम्पद्यते” इति गृहस्थधर्मेणोपसंहारः सर्वाश्रमधर्मप्रदर्शनार्थः । कुतः ? कृत्स्नभावात्-कृत्स्नेषु भावात्-कृत्वाश्रमिषु विद्यायास्सद्भावादित्यर्थः ॥ ४७॥
मौनवदितरेषामप्युपदेशात्॥ २ "अथ मुनिः" इत्यस्मिन्वाक्येर "अय भिक्षाचर्य चरति" इति पारिवाज्यैकान्तधर्मेणोपसंहारोऽपि सर्वाश्रमधर्मप्रदर्शनार्थः, भिक्षाचर्यमौनादिवदितरेषामाश्रमधर्माणां यज्ञादीनामप्युपदेशात् ॥४८॥
इति वेदान्तदीपे सहकार्यन्तरविध्यधिकरणम् ॥ १२ ॥
(श्रीशारीरकमीमांसाभाष्ये अनाविष्काराधिकरणम् ॥)
.
अनाविष्कुर्वन्नन्वयात् ।३।४॥४९॥
२"तस्माद्राह्मणः पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेत्" इत्यत्र विदुषा बाल्यमुपादेयतया श्रुतम् । बालस्य भावः, कर्म वा बाल्यम् । बालभावस्य वयोवस्थांविशेषस्यानुपादेयत्वात्कमवेह गृह्यते । तत्र किंबालस्य कर्म कामचारादिकं सर्व विदुषोपादेयम् , उत डम्भादिरहितत्वमेवेति विशये विशेषाभावात्सर्वमुपादेयम् : नियमशास्त्राणि च विशेषविधिनाऽनेन बाध्यन्त इति ॥
१. छा. ८-१५-१।। २. स. ५-५-१॥
For Private And Personal Use Only