SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा.४.] सहकार्यन्तरविष्यधिकरणम् . __ ---(सिद्धान्तः).... ___ एवं प्राप्ते ब्रूमः-सहकार्यन्तरविधिः-इति । तद्वतः-विद्यावतः; विध्यादिवत्-विधीयते इति यज्ञादिस्सर्वाश्रमधर्मः शमदमादिश्च विधिशब्देनोच्यते; आदिशब्देन श्रवणमनने गृह्येते; सहकार्यन्तरविधिरित्यत्रापि विधीयत इति विधिः, सहकार्यन्तरं विधिश्चेति सहकार्यन्तरविधिः एतदुक्तं भवति-यथा १"तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन" इत्यादिना २"शान्तो दान्तः" इत्यादिना च सहकारी यज्ञादिश्शमदमादिश्च विधीयते यथाच ३"श्रोतव्यो मन्तव्यः" इति श्रवणमनने चार्थप्राप्ने विद्यासहकारित्वेन गृह्यते तथा ४"तसाह्राह्मणः पाण्डित्यं निविद्य" इत्यादिना पाण्डित्यं, बाल्यं, मौनमिति त्रितयं विद्यायास्सहकार्यन्तरं विधीयते-इति । मौनं च पाण्डित्यादर्थान्तरमित्याह-पक्षेणेति। मुनिशन्दस्य पक्षण प्रकृष्टमननशीले व्यासादौ प्रयोगदर्शनात् मौनं पाण्डित्यबाल्ययोयोस्तृतीयम् । यद्यपि ४"अथ मुनिः" इत्यत्र विधिपत्ययो न श्रूयते ; तथापि मौनस्याप्राप्तत्वाद्विधेयत्वममीकरणीयम्-अथ मुनिस्स्यात्-इति । इदं च मौनं श्रवणप्रतिष्ठार्थान्मननादर्थान्तरभूतमुपासनालम्बनस्य पुनःपुनस्संशीलनं तद्भावनारूपम् । तदेवं वाक्यार्थःब्राह्मणः - विद्यावान् पाण्डित्यं निर्विद्य-उपास्यं ब्रह्मतत्त्वं परिशुदं परिपूर्ण च विदित्वा श्रवणमननाभ्यामप्राप्तं वेदनं प्रतिलभ्येत्यर्थः। तच्च भगवद्भक्तिकृतसत्त्वविवृद्धिकृतम् ; यथोक्तं ५"नाहं वेदैः" इत्यारभ्य ५"भक्त्या त्वनन्यया शक्यः... ज्ञातुम्" इति। श्रुतिश्च ६" यस्य देवे परा भक्तिः" "नायमात्मा प्रवचनेन" इत्यादिका । बाल्येन तिष्ठासेत् बाल्यस्वरूपं चानन्तरमेव वक्ष्यते ; बाल्यं च पाण्डित्यं च निर्विद्याथ मुनिस्स्यात्-बाल्यपाण्डित्ये यथावदुपादाय परिशुद्धे परिपूर्णे ब्रह्मणि मन १.१.१४-२२॥-२. बृ. ६.४-२३ ॥-३. 1. ४-४-५॥-४. इ. ५.५१॥-५. गी. ११-५३-५४ ॥-६. श्वे. ६-अ. २३ ॥-७. कठ २-२३ ॥ *50 For Private And Personal Use Only
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy